Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 70
________________ ४१ धर्मशिक्षा प्रकरणं सवृत्तिकम् जीवकर्मप्रदेशानां यः सम्बन्धः परस्परम्। कृशानुलोहवद्धेतोर्बन्धं तं जगदुर्बुधाः ॥ [ अयं च जीवकर्मणां प्रत्यक्षानुपलभ्यत्वेनाप्रत्यक्षोऽप्यनुमानागमाभ्यामधिगम्यते। तत्रानुमानमेवम् — अशेषज्ञेयज्ञानस्वभावस्यात्मनः स्वविषये ज्ञानाप्रवृत्तिर्विशिष्टद्रव्यसम्बन्धनिमित्ता, स्वविषयज्ञानाप्रवृत्तित्वात्, पीतहृत्पूरपुरुषस्वविषयज्ञानाप्रवृत्तिवत् । यच्च ज्ञानस्य स्वविषयप्रतिबन्धनं तत् ज्ञानावरणादिकं वस्तुसत् पुद्गलरूपं कर्मेति । न चायमसिद्धो हेतुः । सकलज्ञेयविषयेऽस्मदादिज्ञानानामप्रवृत्तेः, नापि कदाचिद्गन्धरसादिविषयज्ञानाप्रवृत्त्या व्यभिचारः, तत्रापि श्लेष्मपित्तादिद्रव्यस्यैव तत्प्रतिबन्धकत्वात् । तस्मात् साध्यान्यथानुपपन्नादागमोपगृहीताच्चैतस्मादनुमानाद् द्रव्यरूपसकलकर्मसिद्धिः। आगमश्च प्रदर्शित एवेति । अयं च स्पृष्टनिधत्तादितारतम्येनानेकविधोऽपि प्रकृतिस्थित्यनुभागप्रदेशैश्चतुर्द्धा । पुनर्ज्ञानावरणादिमूलप्रकृतिभिरष्टधा। मत्यावरणादिभिरुत्तरप्रकृतिभिरनेकधेति। यद्यपि चायं जीवकर्मप्रदेशसम्बन्धरूपक्रियालक्षण एव तथापि कारणे कार्योपचारात् तत्कारणं मिथ्यात्वाद्यपि बन्ध एवेति तस्य सप्तपञ्चाशत्प्रकारत्वाभिधानं युक्तमेव । ते चामी - पञ्चविधं मिथ्यात्वम्, द्वादशविधा अविरतिः, षोडश कषायाः, नवभिर्नोकषायैः सह पञ्चविंशतिः, योगास्तु मनोवाक्कायानां क्रमेण चत्वारश्चत्वारः सप्त चेति पञ्चदशेति । तदुक्तम् Jain Education International ] बंधस्स मिच्छ अविरइ कसाय जोग त्ति हेयवो चउरो । पंच दुवालस पणवीस पन्नरस कमेण भेया सिं ॥ ७४ ॥ [प्राचीन-चतुर्थ-कर्मग्रन्थे ] For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142