Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 107
________________ धर्मशिक्षा प्रकरणं सवृत्तिकम् पृथगियमिति हर्षः । चेतनादात्मनः पृथगियं चेतनादपृथग्भावस्तु भ्रान्त इत्यरतिः । दिव्यमाल्याभरणवसनवतीति प्रीतिः । पार्थिवं पार्थिवेन संसक्तमिति विरतिः। हसतीति हर्षः । अस्थिमांसविभाग इति विषादः । मम प्रिया परापरा वेति हर्षविषादौ । शरीरापेक्षया परापरभावो न मदपेक्षयेति न किञ्चित्। नृत्यमिति रतिः। सप्रत्ययासत्प्रत्ययकर्मसन्तानो नार्या शरीर इवेति विरतिः । तस्य जातीया स्त्रीति चोत्साहः । त्वङ्गमांसशोणितस्नाय्वस्थिमज्जशुक्रमूत्रपुरीषसमुदायोऽयं चाण्डालीसाधारण इत्यलं प्रत्ययः । वक्रभ्रूरोमराजीगभीरनाभिरुन्नतपयोधरा पृथुनितम्बा कृशमध्येति स्नेहः। अन्नपानादिपरिणतिरियं मेदोमांसाद्युपचयापचयसंस्थानभेदवती अचिरस्थायिनीति निर्वेदः । इति निमित्तसंज्ञया सहाशुभसंज्ञा, एवमनुव्यंजनसंज्ञयाऽपि सह द्रष्टव्या [१ । १ । १४] इति। तदेवमशुभसंज्ञाभावनमेवात्र निर्वेदोपयोगि तत एव चाबलावान्तिरिति । तदुक्तं श्रीहरिभद्रसूरिभिः श्रावकप्रज्ञप्तिटीकायाम्- अनिशमशुभसंज्ञाभावनासन्नहत्या, कुरुत कुशलपक्षप्राणरक्षां नयज्ञाः । हृदयमितरथा हि स्त्रीकटाक्षाभिधाना, मदनशबरबाणश्रेणयः काणयन्ति ॥ [ श्रावकप्र० २७४ ] तथा का श्रीः? श्रोण्यामजस्त्रं स्रवदुदरदरीपूतिसान्द्रद्रवायाम्, का शोभा? भूरिमांसोद्भवगडुकनिपातोन्मुखेषु स्तनेषु । १. उक्तं च- ' अनिश 'यन्ति ।' [ श्रावकप्र० टीका २७४ ] Jain Education International ७८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142