Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
८६
आत्मीयं तदपि सुधांशोः चन्द्रमसो धाम तेज:किरणलक्षणं तद्वद्धवलं विशदम्, निष्कलङ्कत्वात् कविमार्गे हि यशः श्वेतं वर्ण्यते। विष्वक् सर्वतस्त्रैलोक्येऽपीत्यर्थः। अत एव भगवतां प्रथमपारणकादौ दातुर्जयजयशब्दः सुरासुरैरु ष्यते। तथा दौर्भाग्यं विरूपतादिकृतानादेयता, तदेवावज्ञा-ऽभिभवादिशाखाकत्वाद् द्रुः वृक्षः, सोऽपि प्रभावातिशयात्तेन दात्रा भाजि भग्नः। उभयोरपि भवयोः सौभाग्यस्यैवोद्भवात् । तथा ममृदे मर्दिता चूर्णिता दारिद्रस्य दौर्गत्यस्य मुद्रा राजादेरिव मृन्मयाज्ञाविशेषः द्रुतं शीघ्रम् । तथा चक्रे विदधे। केत्याह-केशवाः अर्द्धचक्रिणः शक्राः देवेन्द्राश्चक्रिणः षट्खण्डभारतादिस्वामिनस्तेषां कमला लक्ष्मी: सातिशयरूपपरिवारादिरूपा तूर्णं त्वरितम्। केत्याह-स्वहस्तोदरे आत्मीयकरकमलगभैं। दानमाहात्म्याद्धि सर्वमेतच्छ्रेयोभूतं सम्पद्यत इति वृत्तार्थः॥ ३५ ॥
तथा
प्रोल्लेसे गुणवल्लिभिः प्रननृते कीर्त्या त्रिलोकाङ्गणे सौख्यैरुच्चकृषे श्रिया प्रववृधे बुद्ध्या जजृम्भे भृशम्। स्वर्लक्ष्या ददृशे सतर्षभितो वीक्षाम्बुभूवे शिव
प्रेयस्या विधिदानदातुरसकृत्कैर्वा न लिल्ये शुभैः॥ ३५॥ व्याख्या-विधिदानदातुः प्रोल्लेसे गुणवल्लिभिरित्यादि सम्बन्धः। प्रोल्लेसे प्रकर्षणोजजृम्भे। सर्वत्राप्यत्र भावे क्रियाप्रयोगः। काभिरित्याह-गुणाः क्षमा-दयौदार्यादयस्त एव प्रवर्द्धनसाधाद्वल्लयो लतास्ताभिः। पूर्व सन्तोऽप्येते गुणा दातुर्विधिदानप्रभावाद्विशेषेण वर्द्धन्त इति भावः। तथा प्रननृते प्रकर्षेण लास्यं चक्रे। कयेत्याह-कीर्त्या दानपुण्योपार्जितया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142