Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
धर्मशिक्षा प्रकरणं सवृत्तिकम्
किमित्याह - सम्यग्ज्ञानं सम्यगवबोधस्तस्य दानं वितरणं तदुत्पादनमिति यावत् । तत्र प्रपा पानीयशाला । यथा तस्यां स्वेच्छया सर्वस्य सलिलपानं तथा पुस्तकेष्वपि सर्वेषामप्यध्ययनार्थिनामध्ययनमिति भावः। तदेवंविधफलाकाङ्क्षिणा पुस्तकलेखनं विधेयमित्युपदेश इति वृत्तार्थः ॥ ३८ ॥
तथा—
मिथ्यात्वोदञ्चदौर्वे व्यसनशतमहास्वापदे शोकशंकातङ्काद्यावर्त्तगर्ते मृतिजननजरापारविस्तारिवारि । आधिव्याधिप्रबन्धोद्धुरतिमिमकरे घोरसंसारसिन्धौ पुंसां पोतायमानं ददति कृतधियः पुस्तकज्ञानदानम् ॥ ३९॥ व्याख्या - कृतधियः पुस्तकज्ञानदानं ददतीति योगः । कीदृशं तदित्याहपोतायमानं यानपात्रायमाणम्, केषामित्याह - पुसां नराणाम्, क्व इत्याहघोरसंसारसिन्धौ भयानकभवसमुद्रे, कीदृशे ? मिथ्यात्वं प्रसिद्धं तदेव सांसारिकसकलमहासन्तापहेतुत्वादौर्वः वडवानलो यत्र स तथा, तत्र । तथा व्यसनानि राजचौराद्युपद्रवास्तेषां शतानि, बाहुल्योपलक्षणमिदम्, तेन बहूनि व्यसनानीत्यर्थः। तान्येव सततसंसारसमुद्रावस्थायित्वात् स्वापदानि यादांसि मत्स्य - कच्छपादीनि यत्र स तथा तत्र । तथा शोकः प्रियतममरणादौ दुःखविशेषः, शङ्का भयं संदेहो वा आतङ्कः सद्योघाती रोगविशेषः शूलादिस्ततः शोकश्च शङ्का चेत्यादि द्वन्द्वस्ततस्ते आद्या येषां नयनश्रवणोदरमहाव्यथानां ते तथा । त एव पुनः पुनर्भवभ्रमणसाधर्म्यादावर्त्तगर्त्तः जलपरिभ्रमणश्वभ्रविशेषो यत्र स तथा तत्र । तथा मृतिजन - नजराः प्रसिद्धास्ता एव प्रतिजन्मभावेनातिबाहुल्यादपाराणि अलब्धपर्यन्तानि विस्तारीणि अतिप्रसरणशीलानि वारि जलानि यत्र स तथा, तत्र । तथा
Jain Education International
९२
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142