Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
व्याख्या - येन नयोपार्जितं स्वं पात्रत्राकृतं तेन तेने इत्यादि सम्बन्धः । अत्र जगति येन केनापि सुकृतकर्मणा स्वम् आत्मीयं स्वं द्रव्यम्, कीदृशम् ? नयोपार्जितं द्यूतोत्कोचापरवञ्चनद्रोहादिपरिहारेण शिष्टजनोचितवाणिज्यादिरूपन्यायेनोपात्तं विढपितं सत्, किमित्याह – पात्रायत्तं करोतीत्यर्थे त्राप्रत्यये कृते पात्रत्राकृतमिति रूपम्, ततः पात्राय वितीर्णमित्यर्थः । पात्रं च ज्ञानक्रियादिगुणगणालंकृतः साध्वादिस्तथा चोक्तम्
८५
इंदिय- कसाय - गारव - निम्महणो छिन्नबंधणो धणियं । पंचमहव्वयजुत्तो नाणाइजुओ मुणी पत्तं ॥
[
]
तदप्युत्तम-मध्यम- जघन्यभेदात् त्रिधा । तत्रोत्तमं तावत्तीर्थकृत्, मध्यमं सुविहितसंतानः, जघन्यं साधर्मिकवर्ग:, क्रमेण ज्ञानादिवृद्धत्वात् । कथं वितीर्णमित्याह-विधिना सिद्धान्तोक्तप्रकारेण । दातृ-ग्रहीतृ-देयविशुद्धयादिरूपेण । तथा चोच्यते—
पात्रमुत्तमगुणैरलङ्कृतं दायकोऽपि पुलकं दधत्तनौ । देयवस्तु परिशुद्धपुष्कलं निष्कलङ्कतपसामिदं फलम्॥ [ ]
तत्रापि सत्कारपूर्वकम्, सत्कारश्च षड्विधः । तदुक्तम्
अभिमुहगमणं आसण-वंदण - मह संविभागदाणं च । पुणरवि वंदण- मणुवयण सक्कारो छव्विहो एसो ॥ [
ततश्च येन स्वकीयं द्रव्यं पात्राय ददे तेन किमित्याह -तेने विस्तारयामासे, किमित्याह-यशः सम्यगुदारता, पराक्रमकृता ख्यातिः । कीदृशम् ? स्वकीयम्
Jain Education International
]
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142