SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् व्याख्या - येन नयोपार्जितं स्वं पात्रत्राकृतं तेन तेने इत्यादि सम्बन्धः । अत्र जगति येन केनापि सुकृतकर्मणा स्वम् आत्मीयं स्वं द्रव्यम्, कीदृशम् ? नयोपार्जितं द्यूतोत्कोचापरवञ्चनद्रोहादिपरिहारेण शिष्टजनोचितवाणिज्यादिरूपन्यायेनोपात्तं विढपितं सत्, किमित्याह – पात्रायत्तं करोतीत्यर्थे त्राप्रत्यये कृते पात्रत्राकृतमिति रूपम्, ततः पात्राय वितीर्णमित्यर्थः । पात्रं च ज्ञानक्रियादिगुणगणालंकृतः साध्वादिस्तथा चोक्तम् ८५ इंदिय- कसाय - गारव - निम्महणो छिन्नबंधणो धणियं । पंचमहव्वयजुत्तो नाणाइजुओ मुणी पत्तं ॥ [ ] तदप्युत्तम-मध्यम- जघन्यभेदात् त्रिधा । तत्रोत्तमं तावत्तीर्थकृत्, मध्यमं सुविहितसंतानः, जघन्यं साधर्मिकवर्ग:, क्रमेण ज्ञानादिवृद्धत्वात् । कथं वितीर्णमित्याह-विधिना सिद्धान्तोक्तप्रकारेण । दातृ-ग्रहीतृ-देयविशुद्धयादिरूपेण । तथा चोच्यते— पात्रमुत्तमगुणैरलङ्कृतं दायकोऽपि पुलकं दधत्तनौ । देयवस्तु परिशुद्धपुष्कलं निष्कलङ्कतपसामिदं फलम्॥ [ ] तत्रापि सत्कारपूर्वकम्, सत्कारश्च षड्विधः । तदुक्तम् अभिमुहगमणं आसण-वंदण - मह संविभागदाणं च । पुणरवि वंदण- मणुवयण सक्कारो छव्विहो एसो ॥ [ ततश्च येन स्वकीयं द्रव्यं पात्राय ददे तेन किमित्याह -तेने विस्तारयामासे, किमित्याह-यशः सम्यगुदारता, पराक्रमकृता ख्यातिः । कीदृशम् ? स्वकीयम् Jain Education International ] For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy