________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
सर्वथा तच्चूर्णकत्वात् । उच्चैः अतिशयेन, तथाऽनुपशमः क्रोधोद्भवः स एवात्यन्तसन्तापकत्वाद्दवः अरण्यानलस्तत्र उद्दाम उद्भटो वर्षाम्बुवाहः प्रावृट्कालमेघः। 'दवोद्दाह' इति पाठे तु दवस्य उद्दाहः प्रबलतापः तत्र वर्षाम्बुवाह : इति । कालान्तरे ह्यल्पत्वान्न तथा तादृग्दाहोपशमकोऽम्बुवाहोऽपि स्यादिति वर्षाग्रहणम् । तथा मिथ्यात्वं विपर्यस्तज्ञानं तदेवापथ्यम् अजीर्णातिरेककारि विषरूपम्। तत्र तथ्यः सत्योऽकृत्रिमरूपः स्फुरन् उल्लसन्नमृतरसः पीयूषनिर्यासः, यथा हि तेन विषं सर्वथाऽपास्यते तथा श्रुतार्थेन मिथ्यात्वमिति । तथा लोभ एव सातिशयप्रसरणधर्मकत्वसाधाद्वल्लिः वल्लरी ततश्च प्रोल्लसन्ती प्रवर्द्धमाना, सा चासौ लोभवल्लिश्च तस्याश्छेदः कर्त्तनं तत्र छेकं प्रधानमसिपत्रं खड्गदलम्, यथा खड्गेन वल्लिः सर्वथा छिद्यते तथा श्रुतार्थपरिणमनेन लोभ इति । विचित्रत्वाच्च सूत्रकृदभिसन्धेरत्र छेदः समानो धर्मः साक्षादेवोपात्तः। किं तदेवंविधमित्याह-श्रुतं सिद्धान्तोऽङ्गोपाङ्गादिरूपमिह जगति । इतिशब्दो हेत्वर्थस्तेन यत एवंरूपमिदं श्रुतं तस्माद् आप्य शुभगुरोः शुभोदयवशात् प्राप्य सम्यक् सूत्रतोऽर्थतश्चावगाह्य। किमित्याह-अध्याप्यं परेभ्यः सूत्रतो देयम्, तथा ज्ञाप्यम् अर्थतोऽपि ज्ञापनीयम्। एतदेव प्राप्तस्य श्रुतस्य फलं तदन्तरेण तु काशकुसुममिवैतन्निःफलमेवात्माध्ययनमात्रस्यात्मभरित्वाभिव्यञ्जकत्वादिति भाव इति वृत्तार्थः ॥ ३३ ॥
अथ धने दित्सेति षोडशं द्वारं स्पष्टीकुर्वन् विधिदानफलमेवाहतेने तेन सुधांशुधामधवलं विष्वक् स्वकीयं यशो दौर्भाग्यद्रुरभाजि तेन ममृदे दारिद्रमुद्रा द्रुतम्। चक्रे केशवशक्रचक्रिकमला तूर्णं स्वहस्तोदरे पात्रत्राकृतमत्र येन विधिना स्वं स्वं नयोपार्जितम्॥ ३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org