________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
विवेकिनां भयकरत्वाद्विषधराः सर्पास्तेषां ग्रासः अन्तनयनं तत्र गृध्यन्नत्यन्ताभिलाषुकः खगेन्द्रः गरुडस्तद्विषयनिर्वेदोत्पादकत्वेन सर्वथा तत्परिहारकत्वात् । तथा दुर्बोधो मिथ्यारूपो दुष्टोऽवगमः स एव सज्ज्ञानप्रहतिमहापराक्रमवत्त्वाद्योधः सुभटः ततश्च क्रुध्यंश्चासौ दुर्बोधयोधश्च तत्र, प्रतिभटपटली सपराक्रमप्रतिपक्षवीरसंहतिर्यथा तया क्रुध्यन् योधो निराक्रियते तथा श्रुतेन दुर्बोध इति । अत्र क्रोधस्य योधमात्रविशेषणत्वेऽपि दुर्बोधस्य तेन रूपणात्तद्विशेषणत्वेऽपि न दोषः । तथा इतिकर्त्तव्यतायामनालोचो मोहः अज्ञानं वा मूर्च्छा वा स एव रोहन् जायमानः प्ररोहः अङ्कुरस्तत्र प्रेङ्खन् लावककरे वल्गंस्तीक्ष्णक्षुरुप्रः निशितायुधविशेषस्तद्वच्छ्रुतस्य मोहमूलोच्छेदकत्वात् । तथा मदः आनन्दसम्मोहभेदो जातिकुलाद्युत्कर्षाभिमानो वाष्टप्रकारः स एवोद्धतत्वदुर्निवारत्वादिसाधर्म्यात् करी हस्ती ततश्च प्रमदो मदकलः स चासौ मदकरी चेति । अत्रापि प्रमदेति विशेषणसम्बन्धः पूर्ववत् । तत्र क्रूरः अत्यन्तदुष्टाध्यवसायः, सोऽपि कदाचिदुपशान्तावस्थो न हन्यादत उक्तम् कुप्यन् हस्तिहननं प्रत्यमर्षवान् मृगारि: सिंह:, यथासौ करिणं निकृन्तति तथा श्रुतमपि मदम्, तच्छ्रवणाद्विवेकिनामपयात्येव मद इति ॥ ३२ ॥
८३
तथा कन्दर्पः काम स एव संकल्पमात्रयोनित्वेनासारत्वात् पांशुप्रकरो रेणूत्करस्ततश्च सर्पन् ससुरासुरे जगति प्रसरन्, स चासौ कन्दर्पपांशुप्रकरश्च तत्र खरमरुत् प्रबलतरः प्रभञ्जनः । यथा तेन पांशुपुञ्जः सर्वथा विक्षिप्यते तथा श्रुतेन कन्दर्पोऽपि । तथा तुङ्गन् उल्लसन्नुत्तुङ्गोऽत्युन्नतो दम्भः निकृतिविशेष: 'शाठ्येन धर्माचरणं दम्भ:' [ ] इति वचनात् । स एव नाना कूटोत्कटत्वसाधर्म्यात् क्ष्माभृत् पर्वतस्तत्र दम्भोलिः वज्रम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org