________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
८२
शब्दस्य स्वभावादेव सम्बन्धिवचनत्वादेवं व्याख्याने सम्बन्धियोजना। जिने तीर्थकरे देवे, कः सचेतनः संदेग्धि अदेवत्वेन संशेते, न कोऽपीत्यर्थः। अयमभिप्रायः यो ह्यष्टादशदोषविप्रकृष्टः समस्तपापनाशनेन प्राप्तकेवलज्ञाननिर्वाणः सोऽपि यदि देवो न भवेत्तदा कोऽन्यो देव इति, सर्वथाप्यभ्रान्तिरेवाप्त इति वृत्तार्थः॥ ३१॥
अथ श्रुते ज्ञीप्सेति पञ्चदशं द्वारं विवृण्वन् श्रुतस्यैव तीव्रतरदोषध्वंसकत्वं रूपकालङ्कारेण वृत्तद्वयेनाहउद्यद्दारिद्र्यरुन्द्रद्रुमशितपरशुर्दुर्गदुर्गत्युदारद्वारस्फारापिधानं विषयविषधरग्रासगृध्यत्खगेन्द्रः। क्रुध्यदुर्बोधयोधप्रतिभटपटली मोहरोहत्प्ररोहप्रेङ्खत्तीक्ष्णक्षुरप्रः प्रमदमदकरिक्रूरकुप्यन्मृगारिः॥३२॥ सर्पत्कन्दर्पपांशुप्रकरखरमरुत्तुङ्गदुत्तुङ्गदम्भमाभृद्दम्भोलिरुच्चैरनुपशमदवोद्दामवर्षाम्बुवाहः। मिथ्यात्वापथ्यतथ्यस्फुरदमृतरसः प्रोल्लसल्लोभवल्लि
च्छेदच्छेकासिपत्रं श्रुतमिह तदिति ज्ञाप्यमध्याप्यमाप्य ॥३३॥ व्याख्या-श्रुतमाप्य ज्ञाप्यमध्याप्यमिति सम्बन्धः। कीदृशम्? उद्यदुल्लसदतितीव्र यद् दारिद्र्यं दौर्गत्यं तदेवानेकावज्ञाभिभवादिशाखाकुलत्वाद्रुन्द्रः विस्तीर्णो न्यग्रोधादिप्रख्यो द्रुमः वृक्षस्तत्र शितपरशुस्तीक्ष्णः कुठारः सर्वथा तदुच्छेदकत्वात् । तथा दुर्गात् क्लेशताकुलत्वेन विषमा दुर्गतिनरकादिका तस्या उदारं पृथुलं यद् द्वारम् आस्रवादिरूपः प्रवेशमार्गस्तस्य स्फारम् अतिविस्तीर्णमपिधानं स्थगनम्। श्रुतश्रवणेन हि सर्वथा आस्रवनिरोधात् पिधीयत एव दुर्गतिद्वारम् । तथा विषयाः शब्दादयस्त एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org