________________
८१
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
एवं दोषाभावेन तत्स्वरूपमभिधाय च गुणसद्भावेनापि तदनुप्रासालङ्कारविशेषेणाह
विद्वत्प्रेयसि सद्रीयसि परानन्दाश्रयस्थेयसि, स्फीतश्रेयसि नाशितैनसि सदा सम्यग्गुणज्यायसि। सज्ज्ञानौकसि धर्मवेधसि हुताविद्यावितानैधसि,
कोऽनन्तौजसि तारतेजसि जिने संदेग्धि वृन्दीयसि॥३१॥ व्याख्या-ईदृशेऽपि जिने कः संदेग्धीति सम्बन्धः। कीदृशे? अविद्याः असम्यग्ज्ञानरूपाः संशयविपर्ययानध्यवसायादयस्तासां वितानः समूहः स एवासाररूपत्वादेध इन्धनं ततो हुतं भस्मसात्कृतमविद्यावितानैधो येन स तथा तत्र । एतदपि कुत इत्यत आह–नाशितम् अन्तं नीतमेनः पापं येन स तथा तत्र । पापाभावे हि क्वाविद्यासद्भाव इति भावः। अत एव सज्ज्ञानं समस्ता विद्या हेत्वावरणाभावाच्छोभनोऽवबोधः केवलरूपस्तस्यौकः गृहं तत्र । तथा सदा सर्वदा सम्यग्गुणैस्तात्त्विकधर्मैः सद्दर्शनादिभिर्व्यायसि प्रशस्ये बृहत्तरे वा। ततश्च परः प्रकृष्ट आनन्दः सुखविशेषस्तस्याश्रयः आवासो मोक्षलक्षणस्तत्र स्थेयान् स्थिरतरस्तत्र, यः केवलज्ञानाद्यनन्तरं मोक्षं प्राप्त इति भावः। तत्र च स्फीतम् अत्यन्तवृद्धं श्रेयः कल्याणमनन्तपञ्चकरूपं यस्य स तथा तत्र । तथा विदुषां सम्यग्दृष्टित्वेन तात्त्विकपण्डितानां प्रेयसि प्रियतमे। तथा सतां सज्जनानां गरीयसि गुरुतरे, सर्वतोऽप्यभ्यधिकगुणत्वादिति भावः। तथा धर्मस्य श्रुतचारित्रादिरूपस्यापि वेधसि स्रष्टरि, आदौ तेन तस्योपदेशात्। तथा अनन्तमपर्यन्तमोजो वीर्यान्तरायक्षयाद्वीर्यं यस्य स तथा तत्र। तथा तारतेजसि दीप्रप्रभावे। तथा वृन्दीयसि वृन्दारकेऽर्थात् सद्गुणानां जनानाम्। वृन्दारक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org