________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
८०
स्रवेभ्यः सर्वथाप्यनिवृत्तिरविरतिः, कामिन्यादिकमनीयविषयदर्शनस्मरणादिना तत्परिभोगेच्छा मदनः, समस्तेन्द्रियव्यापारोपरमे निरुद्धविशिष्टचेष्टस्य चैतन्याभावो निद्रा, क्वचिद् दृढतरारम्भस्यातिनिष्फलत्वेऽत्यन्ताभीष्टवस्तुदाने वा पश्चात्तापो विषादः, अन्तरादातृप्रतिग्रहीत्रोरयते दानादिभङ्गायेत्यन्तरायो विघ्नः। इत्यष्टादश दोषाः संसारः चातुर्गतिको भवः स एव परिभ्रमणसाम्यादावर्त्तप्रधानो गर्तः भूमिस्वभ्रविशेषस्तेन सह व्यतिकरः सम्बन्धस्तस्य जनकाः उत्पादकाः। केषामित्याह-देहिनां प्राणिनाम् । एते हि प्रायो घातिकर्मप्रकृतित्वाद् दृढतरकर्मनिबन्धनमित्येतदभाव: प्रत्यपादि सर्वज्ञे । स्थानान्तरे तु 'अन्नाणकोहमयमाण' इत्यादौ 'पंचंतराय हासाइछक्के 'त्यादौ, 'अंतराया दाने 'त्यादि च नाममालायां च क्वचित् क्वचिद्भेदोऽप्यस्ति । तथाऽपि गाढतरदोषत्वसामान्यादेवमप्यभिधीयते, न कश्चिद्दोषः। ततश्च यस्य भगवत एते रागादयो दोषाः दूषणानि अष्टादशेत्येतत्संख्या न नैव सन्ति स एवाप्तः । आप्तिर्हि दोषक्षयस्तया वर्त्तत इत्याप्तः। तथा च तदुदिते तत्प्रतिपादिते प्रवचने व देशे काले वा शङ्का संदेहो भ्रमो वा तस्य अवकाशः प्रसरोऽस्तु भवतु, न क्वापीत्यर्थः। तदुक्तम्
आगमो ह्याप्तवचनमाप्तिं दोषक्षयं विदुः। वीतरागोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ॥ रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम्। यस्य तु नैते दोषास्तस्यानृतभाषणं किं स्यात् ॥
[ तथा च तत्र सकलदोषविकले कथं देवत्वभ्रान्तिः, न कथञ्चिदिति वृत्तार्थः॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org