________________
७९
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
का वा लीला? सुलीलाचलितजललवा लोलकेशीक्षणेषु, स्त्रीणां किं वास्ति रम्यं वदत बुधजना यत्र सक्तिं विदध्मः।
तस्मात्तासां वान्तिः परित्याग एवोचित इति वृत्तार्थः ।। २९ ॥
अथाभ्रान्तिराप्त इति चतुर्दशं द्वारं व्यक्तीकुर्वन्नाप्तहेतुं रागादिदोषसमूहाभावमुपदर्शयन्नाप्तवचने संदेहाभावमाहरागद्वेषप्रमादारतिरतिभयशुग्जन्मचिन्ताजुगुप्सामिथ्यात्वाज्ञानहास्याविरतिमदननिद्राविषादान्तरायाः संसारावर्त्तगर्त्तव्यतिकरजनका देहिनां यस्य नैते, दोषा अष्टादशाप्तः स इह तदुदिते क्वास्तु शङ्कावकाशः ॥ ३०॥ व्याख्या-यस्यैतेऽष्टादश दोषा न सन्ति स एवाप्तस्तानेवाह-रागः रमणीयवस्त्वभिष्वङ्गलक्षणः, द्वेषः परगुणप्राणप्रहाणेच्छा, प्रमादः शक्तस्य कर्त्तव्याकरणम् , विषयकषायाद्यनुषङ्गो वा, अमनोज्ञोपाश्रयादौ त्वरितत्यागेच्छाऽरतिः, मनोज्ञे तु तत्रैव सततावस्थानेच्छा रतिः, अनिष्टहेतूपनिपाते तत्परित्यागानर्हणज्ञानं भयम्, इष्टवियोगे तल्लाभानर्हणज्ञानं शुक् शोकः, निकायविशिष्टाभिरपूर्वाभिः शरीरेन्द्रियबुद्धिवेदनाभिरभिसम्बन्धो जन्म, दृष्टस्मृतानुभूतविषयानुध्यानं चिन्ता, छर्दितविष्टाद्यशुभतरविषयदर्शनगन्धघ्राणादेर्मुखनासिकाद्याकुञ्चनव्यङ्ग्याऽऽत्यन्तिकी घृणा जुगुप्सा, अदेवादिषु देवादिविपर्यस्तावगमो मिथ्यात्वम्, स्पष्टतरेऽपि विषये विषये विशिष्ट ज्ञानाभावोऽज्ञानम्, विकृतवेषवचनदर्शनश्रवणादिसमुद्भवो नयनकपोलविकाशाद्यभिव्यङ्गयो हर्षविशेषो हास्यम्, प्राणातिपाताद्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org