Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 111
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् ८२ शब्दस्य स्वभावादेव सम्बन्धिवचनत्वादेवं व्याख्याने सम्बन्धियोजना। जिने तीर्थकरे देवे, कः सचेतनः संदेग्धि अदेवत्वेन संशेते, न कोऽपीत्यर्थः। अयमभिप्रायः यो ह्यष्टादशदोषविप्रकृष्टः समस्तपापनाशनेन प्राप्तकेवलज्ञाननिर्वाणः सोऽपि यदि देवो न भवेत्तदा कोऽन्यो देव इति, सर्वथाप्यभ्रान्तिरेवाप्त इति वृत्तार्थः॥ ३१॥ अथ श्रुते ज्ञीप्सेति पञ्चदशं द्वारं विवृण्वन् श्रुतस्यैव तीव्रतरदोषध्वंसकत्वं रूपकालङ्कारेण वृत्तद्वयेनाहउद्यद्दारिद्र्यरुन्द्रद्रुमशितपरशुर्दुर्गदुर्गत्युदारद्वारस्फारापिधानं विषयविषधरग्रासगृध्यत्खगेन्द्रः। क्रुध्यदुर्बोधयोधप्रतिभटपटली मोहरोहत्प्ररोहप्रेङ्खत्तीक्ष्णक्षुरप्रः प्रमदमदकरिक्रूरकुप्यन्मृगारिः॥३२॥ सर्पत्कन्दर्पपांशुप्रकरखरमरुत्तुङ्गदुत्तुङ्गदम्भमाभृद्दम्भोलिरुच्चैरनुपशमदवोद्दामवर्षाम्बुवाहः। मिथ्यात्वापथ्यतथ्यस्फुरदमृतरसः प्रोल्लसल्लोभवल्लि च्छेदच्छेकासिपत्रं श्रुतमिह तदिति ज्ञाप्यमध्याप्यमाप्य ॥३३॥ व्याख्या-श्रुतमाप्य ज्ञाप्यमध्याप्यमिति सम्बन्धः। कीदृशम्? उद्यदुल्लसदतितीव्र यद् दारिद्र्यं दौर्गत्यं तदेवानेकावज्ञाभिभवादिशाखाकुलत्वाद्रुन्द्रः विस्तीर्णो न्यग्रोधादिप्रख्यो द्रुमः वृक्षस्तत्र शितपरशुस्तीक्ष्णः कुठारः सर्वथा तदुच्छेदकत्वात् । तथा दुर्गात् क्लेशताकुलत्वेन विषमा दुर्गतिनरकादिका तस्या उदारं पृथुलं यद् द्वारम् आस्रवादिरूपः प्रवेशमार्गस्तस्य स्फारम् अतिविस्तीर्णमपिधानं स्थगनम्। श्रुतश्रवणेन हि सर्वथा आस्रवनिरोधात् पिधीयत एव दुर्गतिद्वारम् । तथा विषयाः शब्दादयस्त एव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142