Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 108
________________ ७९ धर्मशिक्षा-प्रकरणं सवृत्तिकम् का वा लीला? सुलीलाचलितजललवा लोलकेशीक्षणेषु, स्त्रीणां किं वास्ति रम्यं वदत बुधजना यत्र सक्तिं विदध्मः। तस्मात्तासां वान्तिः परित्याग एवोचित इति वृत्तार्थः ।। २९ ॥ अथाभ्रान्तिराप्त इति चतुर्दशं द्वारं व्यक्तीकुर्वन्नाप्तहेतुं रागादिदोषसमूहाभावमुपदर्शयन्नाप्तवचने संदेहाभावमाहरागद्वेषप्रमादारतिरतिभयशुग्जन्मचिन्ताजुगुप्सामिथ्यात्वाज्ञानहास्याविरतिमदननिद्राविषादान्तरायाः संसारावर्त्तगर्त्तव्यतिकरजनका देहिनां यस्य नैते, दोषा अष्टादशाप्तः स इह तदुदिते क्वास्तु शङ्कावकाशः ॥ ३०॥ व्याख्या-यस्यैतेऽष्टादश दोषा न सन्ति स एवाप्तस्तानेवाह-रागः रमणीयवस्त्वभिष्वङ्गलक्षणः, द्वेषः परगुणप्राणप्रहाणेच्छा, प्रमादः शक्तस्य कर्त्तव्याकरणम् , विषयकषायाद्यनुषङ्गो वा, अमनोज्ञोपाश्रयादौ त्वरितत्यागेच्छाऽरतिः, मनोज्ञे तु तत्रैव सततावस्थानेच्छा रतिः, अनिष्टहेतूपनिपाते तत्परित्यागानर्हणज्ञानं भयम्, इष्टवियोगे तल्लाभानर्हणज्ञानं शुक् शोकः, निकायविशिष्टाभिरपूर्वाभिः शरीरेन्द्रियबुद्धिवेदनाभिरभिसम्बन्धो जन्म, दृष्टस्मृतानुभूतविषयानुध्यानं चिन्ता, छर्दितविष्टाद्यशुभतरविषयदर्शनगन्धघ्राणादेर्मुखनासिकाद्याकुञ्चनव्यङ्ग्याऽऽत्यन्तिकी घृणा जुगुप्सा, अदेवादिषु देवादिविपर्यस्तावगमो मिथ्यात्वम्, स्पष्टतरेऽपि विषये विषये विशिष्ट ज्ञानाभावोऽज्ञानम्, विकृतवेषवचनदर्शनश्रवणादिसमुद्भवो नयनकपोलविकाशाद्यभिव्यङ्गयो हर्षविशेषो हास्यम्, प्राणातिपाताद्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142