Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 104
________________ ७५ धर्मशिक्षा-प्रकरणं सवृत्तिकम् भवतीति भावः। तथा दर्शनस्पर्शनाभ्यामन्यदपि किं करोतीत्याह-लीलया सशृङ्गारचेष्टाविशेषेण लोलानि चपलानि अलसानि कार्यारम्भप्रवणानि अङ्गानि भ्रूनेत्रबाहुप्रभृतीनि यस्याः सा तथा। जगति दर्शकस्पर्शककामिजने वितनुते करोति । कानित्याह-अनङ्गसङ्गेन कामाभिष्वङ्गेणाङ्गभङ्गान्मोट्टायितादीननुभावविशेषान्। तथा खेद आलस्यहेतुश्रमः स्वेदः श्रमाम्बुरूपस्तयोः प्रभेदांस्तारतम्यप्रकारान्। किमित्याह-प्रथयति विस्तारयति । कीदृशान्? दवथुरुपतापः स्तम्भो विष्टब्धचेष्टत्वं संरम्भः व्याकुलता ते गर्भेऽन्तर्गता येषां ते तथा तान्, सात्त्विकविकारविशेषान्। इह च वितनुत इत्यनुवृत्तावपि यत्क्रियान्तरोपादानं तद्विजातीयकार्यभेद- . सम्बन्धोपदर्शनार्थम्। एवं तदृष्ट्यादिकार्यमभिधायाथ तत्स्मरणकार्यमाहभ्रमयति असद्दर्शन(ना)पेक्षं करोति, भुवनं जगत्तत्स्मृतिपरायणं जनम्। अत एवाह-चिन्तिताऽपि अनुस्मृताऽप्यास्तां दृष्टेत्यपिशब्दस्यार्थः। केन चिन्तिता? चेतसा मनसा चिन्तनस्य चित्ताव्यभिचारेऽपि यत्तद्ग्रहणं तत् क्वचिदत्यन्तासतोऽपि दर्शनसूचनार्थम्। तथा चोच्यते प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा, पर्यः सा दिशि दिशि च सा तद्वियोगाकुलस्य। हंहो चेतःप्रकृतिरपरा दृश्यते कापि सा सा, सा सा सा सा जगति सकले कोऽयमद्वैतवादः॥ अत्रोपमानमाह-व्यालावलीव भुजगश्रेणिरिव। साऽपि चक्षुः क्रूरं क्षिपन्ती प्रेक्षकाणां लोचनानि क्षपयति। लीलयाऽनायासगमनेन लोलालसाङ्गी मन्थरचलच्छरीरापि वितनुते। किमित्याह–अङ्गसङ्ग १. [असद्दर्शनपक्षं? असद्दर्शनप्रेक्षं?] ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142