________________
७५
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
भवतीति भावः। तथा दर्शनस्पर्शनाभ्यामन्यदपि किं करोतीत्याह-लीलया सशृङ्गारचेष्टाविशेषेण लोलानि चपलानि अलसानि कार्यारम्भप्रवणानि अङ्गानि भ्रूनेत्रबाहुप्रभृतीनि यस्याः सा तथा। जगति दर्शकस्पर्शककामिजने वितनुते करोति । कानित्याह-अनङ्गसङ्गेन कामाभिष्वङ्गेणाङ्गभङ्गान्मोट्टायितादीननुभावविशेषान्। तथा खेद आलस्यहेतुश्रमः स्वेदः श्रमाम्बुरूपस्तयोः प्रभेदांस्तारतम्यप्रकारान्। किमित्याह-प्रथयति विस्तारयति । कीदृशान्? दवथुरुपतापः स्तम्भो विष्टब्धचेष्टत्वं संरम्भः व्याकुलता ते गर्भेऽन्तर्गता येषां ते तथा तान्, सात्त्विकविकारविशेषान्। इह च वितनुत इत्यनुवृत्तावपि यत्क्रियान्तरोपादानं तद्विजातीयकार्यभेद- . सम्बन्धोपदर्शनार्थम्। एवं तदृष्ट्यादिकार्यमभिधायाथ तत्स्मरणकार्यमाहभ्रमयति असद्दर्शन(ना)पेक्षं करोति, भुवनं जगत्तत्स्मृतिपरायणं जनम्। अत एवाह-चिन्तिताऽपि अनुस्मृताऽप्यास्तां दृष्टेत्यपिशब्दस्यार्थः। केन चिन्तिता? चेतसा मनसा चिन्तनस्य चित्ताव्यभिचारेऽपि यत्तद्ग्रहणं तत् क्वचिदत्यन्तासतोऽपि दर्शनसूचनार्थम्। तथा चोच्यते
प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा, पर्यः सा दिशि दिशि च सा तद्वियोगाकुलस्य। हंहो चेतःप्रकृतिरपरा दृश्यते कापि सा सा, सा सा सा सा जगति सकले कोऽयमद्वैतवादः॥
अत्रोपमानमाह-व्यालावलीव भुजगश्रेणिरिव। साऽपि चक्षुः क्रूरं क्षिपन्ती प्रेक्षकाणां लोचनानि क्षपयति। लीलयाऽनायासगमनेन लोलालसाङ्गी मन्थरचलच्छरीरापि वितनुते। किमित्याह–अङ्गसङ्ग
१. [असद्दर्शनपक्षं? असद्दर्शनप्रेक्षं?] ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org