________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
t
द्वेषवेतालश्च, तत्र द्वेषः परगुणप्राणप्रहाणेच्छा, स एव भीषणाकारधारित्वाद्वेतालः प्रेतविशेषस्तेन रौद्रः भयङ्करस्तस्मिन् । भवति हि वेताले मुखं तत्र च दंष्ट्रा इति। तदत्रापि द्वेषे ईर्ष्यामर्षादिमान् कलहो मुखमिति । हेति खेदे । संसार एव जातिजरामृतिप्रभृतिविभीषिकाभीषणत्वात् श्मशानं पितृवनम्, अत एवाह भृशभयजनने सहृदयानामत्यर्थं त्रासोत्पादको न्यूषुषामिति, निपूर्वाद्वसते: कंसौ द्विर्वचने संप्रसारणे च रूपमिदम्। ततश्च कृतनिवासानां प्राणिनामिति गम्यते । क्व देशे काले वाऽस्तु भवतु भद्रं कल्याणं परमं सुखमिति यावत्, न क्वापीत्यर्थः । यदा चैवमत्र निवसतां न क्वापि भद्रं तदा नूनं सुखाभाव एवेति वृत्तार्थः ॥ २७ ॥
अथाबलावान्तिरिति त्रयोदशं द्वारमाविष्कुर्वन्नबलाया एव त्यागोपयोगिजनदुःखोत्पादकत्वमाह—
७४
चक्षुर्दिक्षु क्षिपन्ती क्षपयति झगिति प्रेक्षकाक्षीणि साक्षाल्लीलालोलालसाङ्गी जगति वितनुते ऽनङ्गसङ्गाङ्गभङ्गान् । खेदस्वेदप्रभेदान् प्रथयति दवथुस्तम्भसंरम्भगर्भान् बाला व्यालावलीव भ्रमयति भुवनं चेतसा चिन्तिताऽपि ॥ २८ ॥ व्याख्या–बाला हि दृष्टा चिन्तिता वा चक्षुः क्षिपन्ती प्रेक्षकाक्षीणि क्षपयतीत्यादि सम्बन्धः । षोडशवर्षदेशीया योषिद्वालाऽभिधीयते । सा च सातिशयरूपविलासयौवना चक्षुः सानुरागं लोचनं दिक्षु प्रेक्षकलोकाधिष्ठितासु काष्ठासु क्षिपन्ती पातयन्ती । किमित्याह - क्षपयति सदुःखानि करोति झगिति शीघ्रम् । प्रेक्षकाक्षीणि तद्दर्शनसकौतुकलोकलोचनानि साक्षाद् अव्यवधानेन तदैवेत्यर्थः । तद्दृष्टौ तदप्राप्तौ च तेषां महद्दुःखं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org