________________
. ७३
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
उद्धावत्क्रोधगृधेऽधिकपरुषरवोत्तालतृष्णाशृगालीशालिन्युद्युन्मनोभूललितकिलकिलारावरागोग्रभूते। ईर्ष्याऽमर्षादिदंष्ट्रोत्कटकलहमुखद्वेषवेतालरौद्रे, हा! संसारश्मशाने भृशभयजनने न्यूषुषां क्वाऽस्तु भद्रम्॥२७॥ व्याख्या-क्रोधः रोषः स एवातिरौद्राकारधारित्वाद् गृध्रः पिशिताशि पक्षिविशेषः, ततश्चोद्धावन् प्राबल्येन प्रसर्पन् क्रोधगृध्रो यत्र । तथा पुनः कीदृशे? अधिकम् अतिशयेन परुषः कर्णकटुको रवः फेत्काररूपः शब्दस्तेनोत्ताला उद्भटा चासौ तृष्णाशृगाली च विषयपिपासैव सततचित्तारण्यचारित्वात् फेरवा च, तया शालते शोभते तच्छालि, तस्मिन् । तथोद्युन्नुल्लसन् प्रबलीभवन् यो मनोभूः कामस्तस्य तेन वा यानि ललितानि विलसितानि सुरतकूजितादीनि तान्येवाव्यक्तध्वनिरूपत्वात् किलकिलारावः रौद्रध्वनिविशेषो यस्य स चासौ रागोग्रभूतश्च। तत्र रागः कामिनीविषय आत्यन्तिकः अभिलाषः स एव सुरतादावतिरौद्राकारधारि -त्वादुनः प्रचण्डो भूतो व्यन्तरविशेषो यत्र तत्तथा, तस्मिन् । तथा चोक्तं गन्धहस्तिटीकायाम्
नग्नप्रेत इवाविष्टः क्वणन्तीं परिगृह्य ताम्।
खेदाऽऽयासितसर्वाङ्गसुखी स रमते किल । [ ] इति ततो युक्तमेव रागस्य भूतेन रूपणमिति। तथा साधारणे वस्तुनि पराभिनिवेशप्रतिषेधेच्छा ईर्ष्या, परोपकारासहिष्णुताऽमर्षः, तावादी प्रथमौ येषां द्रोहा-ऽसूयादीनां त एव सद्गुणगणचर्वणदक्षत्वाइंष्ट्रा दशनविशेषास्ताभिरुत्कटम् उद्भटं कलहमुखं वाग्युद्धमेव वदनं यस्य स चासौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org