________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
७६
स्याभावो अनङ्गसङ्गम्। तत्र अङ्गभङ्गा मूर्छादिजन्या विकारास्तान्। भुजगश्रेणिशरीरसम्बन्धमन्तरेणापि हि प्रेक्षकाणां त्रासविशेषादङ्गभङ्गा जायन्त इति भावः। खेदस्वेदौ दवथुस्तम्भसरम्भाश्च तथैवेति । भुजगश्रेण्युपमानेन च अबलायाः परमार्थतोऽत्यन्तरौद्रत्वेन भयङ्करत्वं सूचितमिति । 'निजवर्गान्त्यैर्वाः संयुक्ता उपरि सन्ति मधुरायाम्' [रुद्रट काव्यालं० २। २०] इति वचनादत्र मधुरा नाम वृत्तिरिति वृत्तार्थः॥ २८ ।।
एवं तावद् रूपवत्त्वादिगुणोपदर्शनेन चित्ताक्षेपकत्वमभिधायाथ तस्या एव वैराग्योपयोगि कालुष्यादिदोषवत्त्वमाह
कालुष्यं कचसञ्चयाच्चपलतालीलाचलल्लोचनाद् बिम्बोष्ठाद् गुरुरागिता कुटिलितभ्रूचक्रतो वक्रता। नाभीतोऽपि च नीचता कुचतटात् काठिन्यमन्वर्थतो
वामानां बत तुच्छता परिचयाल्लग्नावलग्नाद् ध्रुवम्॥२९॥ व्याख्या-वामानां कचसञ्चयात् कालुष्यं लग्नमित्यादि सम्बन्धनीयम् । कालुष्यादिशब्दाश्च प्रायः श्लिष्टाः। ततश्च कालुष्यं दुष्टान्त:करणत्वं वामानां योषितां कचसञ्चयात् स्वकीयकलुषकेशपाशात् परिचयादनवरतगाढसङ्गाल्लग्नम्, ध्रुवमित्युत्प्रेक्षार्थम्। केशेषु तु कालुष्यं कृष्णत्वमेव। तथा चपलता चञ्चलचित्तता साऽपि लीलया हेलया चलद् भ्राम्यद्यल्लोचनं नेत्रं ततः पञ्चमी सर्वत्र भिन्नाधिकरणा द्रष्टव्या। परिचयालग्नेति सम्बन्धः। एतच्च पदद्वयं सर्वत्र सम्बन्धनीयम्। तथा गुरुरागिता प्रबलानुरागयुक्तचित्तता। कुत इत्याह-बिम्ब्या रक्तफलायाः फलं बिम्बं तदाकार ओष्ठः अधरस्ततः। अनुरागस्य गुणत्वेऽपि विवेकिनां हेयत्वेनेह दोषरूपत्वमवसेयम्। तथा कुटिलितं वक्रतां प्राप्तं यद् भ्रूचक्रं नयनोपरिवर्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org