________________
1919
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
कुटिलरोमरेखारूपम्। ततः केत्याह-वक्रता मायैकनिष्ठमानसता। तथा नाभीतः उदरकूपिकायाः सकाशाद् नीचता पृथग्जनरूपता, तादृग्जनानुरागिता वा। अपि चेति समुच्चये। तथा कुचतटान्निबिडबन्धस्तनच्छलात् काठिन्यम् अनार्द्रहृदयत्वम्, निरुपरोधशीलतेति यावत्। तथा तुच्छता स्वल्पसुखदुःखहेतावपि सातिशयप्रमोदविषादिता । कुत इत्याहअवलग्नात् कृशतरमध्यप्रदेशात्। सर्वं चैतत् कालुष्यचपलतादिकमन्वर्थतो वामानां लग्नम्। तत्रानुगतः सम्बद्धोऽर्थः कलुषभावादिलक्षणस्तस्मात् । अयमभिप्रायः, कालुष्यादिकं हि केशादिषु तावत् पारमार्थिकमेवान्वर्थवशात्तद्योषित्स्वपि, ततश्च केशादिपरिचयात्तत्तत्र लग्नमित्युत्प्रेक्षितम्। वामानामित्यस्यन्वर्थतो विपर्यस्तबुद्धीनामत एव तत्तत्कालुष्यादिग्रहणोचितत्वं तासामिति। योषितामेकरूपाणामपि तत्तत्संज्ञाभावनावशाद्भोगवैराग्यहेतुत्वम्। तथाहि-तासु तिस्रः संज्ञास्तत्र निमित्तसंज्ञा तावद्दन्तौष्ठमित्यादिका दन्तौष्ठत्वादिनिमित्ता। अनुव्यञ्जनसंज्ञा तु दन्तरत्नं मुखवानलं चन्द्रमुखीत्यादिका। अशुभसंज्ञा तु अस्थिमांसमित्यादिका। तदत्र प्रथमवृत्ते चक्षुः दिक्ष्वित्यादौ तावन्निमित्तसंज्ञा, द्वितीये कालुष्यं कचेत्यादौ तत्त्ववृत्त्याऽशुभसंज्ञाभावनम्। तथा चोक्तमुदयनेन न्यायतात्पर्यपरिशुद्धौ [पृ० २४७] दन्तौष्ठमित्यनुरागः। अस्थिमांसमिति वैराग्यं श्यामेति हर्षः। पाकजमिदं मांसपार्थिवरूपमिति माध्यस्थम् । मुखामोद इत्यामोदः।
औपाधिकोऽयमस्य, सहजस्तु पूतिरिति वैमुख्यम्। अहो मधुरमेतन्मुखावर्जितं ताम्बूलमिति प्रवृत्तिः। उच्छिष्टमिदमिति निवृत्तिः। प्रेयसीस्पर्श इत्युत्सवः। पार्थिवद्रव्यमात्रस्पर्श इति न किञ्चित् । बहुकेशीत्यनुरागः। मज्जधातुमला इमे बहवः श्मशानतराविव संसक्ता इत्युद्वेगः। पीनस्तनीत्यानन्दः। स्फिनिर्विशेषौ पललपिण्डावित्यलं प्रत्ययः। मृतशरीरादचेतनात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org