________________
४१
धर्मशिक्षा प्रकरणं सवृत्तिकम्
जीवकर्मप्रदेशानां यः सम्बन्धः परस्परम्। कृशानुलोहवद्धेतोर्बन्धं तं जगदुर्बुधाः ॥
[
अयं च जीवकर्मणां प्रत्यक्षानुपलभ्यत्वेनाप्रत्यक्षोऽप्यनुमानागमाभ्यामधिगम्यते। तत्रानुमानमेवम् — अशेषज्ञेयज्ञानस्वभावस्यात्मनः स्वविषये ज्ञानाप्रवृत्तिर्विशिष्टद्रव्यसम्बन्धनिमित्ता, स्वविषयज्ञानाप्रवृत्तित्वात्, पीतहृत्पूरपुरुषस्वविषयज्ञानाप्रवृत्तिवत् । यच्च ज्ञानस्य स्वविषयप्रतिबन्धनं तत् ज्ञानावरणादिकं वस्तुसत् पुद्गलरूपं कर्मेति । न चायमसिद्धो हेतुः । सकलज्ञेयविषयेऽस्मदादिज्ञानानामप्रवृत्तेः, नापि कदाचिद्गन्धरसादिविषयज्ञानाप्रवृत्त्या व्यभिचारः, तत्रापि श्लेष्मपित्तादिद्रव्यस्यैव तत्प्रतिबन्धकत्वात् । तस्मात् साध्यान्यथानुपपन्नादागमोपगृहीताच्चैतस्मादनुमानाद् द्रव्यरूपसकलकर्मसिद्धिः। आगमश्च प्रदर्शित एवेति । अयं च स्पृष्टनिधत्तादितारतम्येनानेकविधोऽपि प्रकृतिस्थित्यनुभागप्रदेशैश्चतुर्द्धा । पुनर्ज्ञानावरणादिमूलप्रकृतिभिरष्टधा। मत्यावरणादिभिरुत्तरप्रकृतिभिरनेकधेति। यद्यपि चायं जीवकर्मप्रदेशसम्बन्धरूपक्रियालक्षण एव तथापि कारणे कार्योपचारात् तत्कारणं मिथ्यात्वाद्यपि बन्ध एवेति तस्य सप्तपञ्चाशत्प्रकारत्वाभिधानं युक्तमेव । ते चामी - पञ्चविधं मिथ्यात्वम्, द्वादशविधा अविरतिः, षोडश कषायाः, नवभिर्नोकषायैः सह पञ्चविंशतिः, योगास्तु मनोवाक्कायानां क्रमेण चत्वारश्चत्वारः सप्त चेति पञ्चदशेति । तदुक्तम्
Jain Education International
]
बंधस्स मिच्छ अविरइ कसाय जोग त्ति हेयवो चउरो । पंच दुवालस पणवीस पन्नरस कमेण भेया सिं ॥ ७४ ॥
[प्राचीन-चतुर्थ-कर्मग्रन्थे ]
For Private & Personal Use Only
-
www.jainelibrary.org