Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 75
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् ४६ तराण्यपि। श्रद्धत्त इति प्रमाणोपपन्नतया प्रतीत्य तथेति शुभात्मपरिणामरूपरुचिविषयाणि विधत्त तत्त्वानि यथावत् प्रमाणोपदर्शितवस्तुरूपाणि, भो! इति श्राद्धश्रोतृणामामन्त्रणम्। हितैषिणा हि श्रोतारः सम्यगामन्त्र्य हितमुपदेष्टव्या इति शिष्टसमाचारसमापनार्थं सम्बोधनमिति। केवलं श्रद्धानमपि न प्रमाणोपपन्नत्वेन परस्परकार्यकारणपरिणामरूपतया सापेक्षत्वेन वाऽज्ञाते सम्यक् सम्भवन्तीति। तानि पूर्वप्रमाणोपपन्नत्वादिना ज्ञातव्यानि। अत्र चार्थे आगमोऽप्येवम् जो जीवे वि न याणइ अजीवे वि न याणई। जीवाजीवे अयाणंतो कहं सो नाहीय संजमं॥ [दशवै० ४। १२] इत्यादिस्तथा 'जो जीवे वि वियाणाई'[दशवै० ४।१३] इत्यादिश्च। तथा 'जया पुण्णं च पावं च बंधं मुक्खं च जाणइ [दशवै० ४। १६] इत्यादिश्चान्वयव्यतिरेकाभ्यां तज्ज्ञानमेव मोक्षानन्तरकारणचारित्रहेतुत्वेनोपदर्शयति । न च माषतुषादीनां तथाविधज्ञानाभावेऽपि स्वकार्यसाधकत्वश्रुतेस्तदनादरणीयम् । तेषामपि गुरुविषयाद्वैतप्रतिपत्तितत्पारतन्त्र्यरूपनैश्चयिकज्ञानाभ्युपगमात् । न चान्येषामपि तदेवास्तु किं श्रुताध्ययनश्रवणादिज्ञानेनेति वाच्यम्? तथा सति- 'पढमं नाणं तओ दया'[दशवै० ४।१०] इत्यादि वचनं व्यर्थमापद्येत । किं चैकस्य तथोपलम्भे सर्वत्र तथाभ्युपगमे श्रुतज्ञानवच्चारित्रमप्यनादरणीयं स्यात् । मरुदेविस्वामिनीभरतचक्रिप्रभृतीनां तत्प्रतिपत्तिमन्तरेणापि केवलोत्पत्तिश्रवणात्। तस्मान्न कादाचित्कविशिष्टाध्यवसायवशात् स्वकार्यसाधकप्राणिमात्रदृष्टान्तेन सर्वसांव्यवहारिकशास्त्रीयज्ञानप्रतिक्षेपः कर्त्तव्यः। ज्ञानचारित्रयो : समुदितयोरेव निःश्रेयस Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142