Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 85
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् व्याख्या - प्राणभाजो भववनगहने क्लेशमेव त्राणाय श्रयन्त इति सम्बन्धः । कीदृशे भवे इत्याह- मृतिजननजराः प्रसिद्धाः ता एव महारौद्रत्वेन राक्षसा रात्रिञ्चराः, ततश्च प्रोत्सर्पद्दर्पाः समुल्लसत्स्वानुरूपबाधाविधानोद्धुराः सर्पन्तः सर्वतः सञ्चरन्तो मृतिजननजराराक्षसा यत्र तत्तथा, तत्र। तथा नोकषायाः कषायसहचारिणो हास्यादयो नव, त एव भवे महाभयोत्पादकत्वात् क्रूराः क्षुद्रा उरवः महान्तः श्वापदाः सिंह- व्याघ्रादिपशुविशेषास्तेषामोघाः समूहा यत्र तत्तथा, तत्र । तथा विषमतमाः कटुविपाकतया कण्टकाद्याकुलमार्गवदत्यन्तदुःखहेतुसञ्चारास्ते च ते कषायाश्च क्रोधादयस्त एव महासन्तापहेतुत्वादिद्धो दीप्तो दावाग्निः आरण्यो वह्निस्तेन दुर्गे कृच्छ्रसञ्चारे । ईदृशे च भववनगहने संसाररण्यगह्वरे प्राणभाजः प्राणिनो मोहान्धाश्चतुर्थकर्मप्रकृतिनिरुद्धसम्यग्दृष्टिप्रचाराः । तथा भोगतृष्णा वैषयिकसुखानुभवपिपासा तया आतुरा किंकर्त्तव्यतामूढा तरला चञ्चला दृग् सम्यग्ज्ञानरूपा दृष्टिर्येषां ते तथा । एवंविधाश्च सन्तो भूरि प्रभूतकालं यावदिति भ्रमणक्रियाविशेषणं बम्भ्रम्यमाणा निरन्तरमत्यर्थं पर्यटन्तः सन्तस्त्राणाय भोगतृष्णादुःखनिवर्त्तनाय । किमित्याह — क्लेशमेवाधिकतर - तृष्णाहेतुमेव कान्तासङ्गमादिकं श्रयन्ते भजन्ते । येन ह्यधिकतरं सा विवर्द्धत एव । तदुक्तम् । । उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् ॥ [ ] अनुरणनव्यापारेण चात्रायमर्थः प्रतीयते । यथा केचिन्मृगादयो मोहान्धाः मूर्च्छा विशेषप्रतिबद्धदृष्टिव्यापारास्तृष्णातुरतरलदृशो भूरिकालं वनगहने Jain Education International ५६ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142