________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
व्याख्या - प्राणभाजो भववनगहने क्लेशमेव त्राणाय श्रयन्त इति सम्बन्धः । कीदृशे भवे इत्याह- मृतिजननजराः प्रसिद्धाः ता एव महारौद्रत्वेन राक्षसा रात्रिञ्चराः, ततश्च प्रोत्सर्पद्दर्पाः समुल्लसत्स्वानुरूपबाधाविधानोद्धुराः सर्पन्तः सर्वतः सञ्चरन्तो मृतिजननजराराक्षसा यत्र तत्तथा, तत्र। तथा नोकषायाः कषायसहचारिणो हास्यादयो नव, त एव भवे महाभयोत्पादकत्वात् क्रूराः क्षुद्रा उरवः महान्तः श्वापदाः सिंह- व्याघ्रादिपशुविशेषास्तेषामोघाः समूहा यत्र तत्तथा, तत्र । तथा विषमतमाः कटुविपाकतया कण्टकाद्याकुलमार्गवदत्यन्तदुःखहेतुसञ्चारास्ते च ते कषायाश्च क्रोधादयस्त एव महासन्तापहेतुत्वादिद्धो दीप्तो दावाग्निः आरण्यो वह्निस्तेन दुर्गे कृच्छ्रसञ्चारे । ईदृशे च भववनगहने संसाररण्यगह्वरे प्राणभाजः प्राणिनो मोहान्धाश्चतुर्थकर्मप्रकृतिनिरुद्धसम्यग्दृष्टिप्रचाराः । तथा भोगतृष्णा वैषयिकसुखानुभवपिपासा तया आतुरा किंकर्त्तव्यतामूढा तरला चञ्चला दृग् सम्यग्ज्ञानरूपा दृष्टिर्येषां ते तथा । एवंविधाश्च सन्तो भूरि प्रभूतकालं यावदिति भ्रमणक्रियाविशेषणं बम्भ्रम्यमाणा निरन्तरमत्यर्थं पर्यटन्तः सन्तस्त्राणाय भोगतृष्णादुःखनिवर्त्तनाय । किमित्याह — क्लेशमेवाधिकतर - तृष्णाहेतुमेव कान्तासङ्गमादिकं श्रयन्ते भजन्ते । येन ह्यधिकतरं सा विवर्द्धत एव । तदुक्तम्
।
।
उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् ॥
[
]
अनुरणनव्यापारेण चात्रायमर्थः प्रतीयते । यथा केचिन्मृगादयो मोहान्धाः मूर्च्छा विशेषप्रतिबद्धदृष्टिव्यापारास्तृष्णातुरतरलदृशो भूरिकालं वनगहने
Jain Education International
५६
For Private & Personal Use Only
www.jainelibrary.org