________________
५७
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
भ्राम्यन्तस्तत्तृष्णानिवर्त्तनाय क्लेशमेव मृगतृष्णाद्यनुसरणं विदधत्येवमेतेऽपीति। यत एवंविधो भवस्तस्मात् समीचीनैव ततो भीतिरिति वृत्तार्थः॥ १६॥
अथ प्रतिजन्म विरुद्धरूपान्तराश्रयणेन वैराग्योपयोगि भवस्वरूपं सविषादमाह
सुखी दुःखी रङ्को नृपतिरथ निःस्वो धनपतिः प्रभुर्दासः शत्रुः प्रियसुहृदबुद्धिर्विशदधीः। भ्रमत्यभ्यावृत्त्या चतसृषु गतिष्वेवमसुमान्
हहा संसारेऽस्मिन्नट इव महामोहनिहतः ॥१७॥ व्याख्या-चतसृषु गतिष्वसुमानेवं भ्रमतीति सम्बन्धः। कथं कथमित्याहअयम् असुमान् जीवः कदाचित् सुखी स्यात् इष्टसंयोगाद्यानन्दवान्, स एव कदाचिद् दुःखी रोगादिबाधावान्। परं भवान्तरे कदाचित्तत्रैव वा भवे। तथा रङ्को द्रमको भिक्षुकादिः स एव नृपतिः भूपः। एवम् अथ अनन्तरं निःस्वो निर्धनो धनपतिः ईश्वरः प्रभुः स्वपोष्यापेक्षया स्वामी, दासः मूल्येन क्रीतः कर्मकरविशेषः। तथा शत्रुः पितृवधादिनिमित्तेन वैरी स एवानुकूलाचरणादिना प्रियसुहृद् वल्लभमित्रम् । तथा अबुद्धिः नबः प्रसज्यवृत्तित्वेऽबुद्धिः सर्वथा बुद्धिविकलः, पर्युदासवृत्तौ तु विपर्ययज्ञानवान्, स एव विशदधीः अतिसूक्ष्मपदार्थविवेचनचतुरबुद्धिः। उपलक्षणं चैतत् परस्परविरुद्धसुखित्वादियुगलषट्कम् । तेन सुरूप-विरूपसुभग-दुर्भगादिकमपि द्रष्टव्यम्। किमित्याह-एवं सुखित्वादिप्रकारेणासुमान् प्राणी चतसृष्वपि नर कादिगतिषु हहे ति खेदेऽस्मिन् प्रत्यक्षोपलभ्यमानस्वरूपे संसारे भवे भ्रमति पर्यटति। कथमित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org