________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
अभ्यावृत्त्या पौनः पुण्येनेति पदघटना कार्या । तिर्यक्ष्वपि तारतम्येन सुखित्वादिकं द्रष्टव्यम्। अत्रोपमानमाह - नट इव शैलूषवत्, यथा नटो नानारूपत्वेन विपरिवर्त्तते तथाऽसुमानपीति । एवं च यत्रैकस्यापि पिशाचादेरिव क्षणे क्षणेऽन्यरूपता तस्माद्भयमवश्यं भावीति तेनोपदिष्टं भवाद्भीतिरस्त्विति । अत्र वृत्तेरसमासाया वैदर्भीरीतिरेकैव [ रुद्रटकाव्यालं० २ । ६] इति वचनाद् वैदर्भीरीतिः । इति वृत्तार्थः ॥ १७ ॥
अथाष्टममात्मनीतिद्वारं विवृण्वन्नात्मनीतिमेव स्वरूपतः प्राहसख्यं साप्तपदीनमुत्तमगुणाभ्यासः परोपक्रिया सत्कारो गुरुदेवतातिथियतिष्वायत्यनुप्रेक्षणम् । स्वश्लाघापरिवर्जनं जनमन: प्रेयस्त्वमक्षुद्रता सप्रेम प्रथमाभिभाषणमिति प्रायेण नीतिः सताम् ॥ १८ ॥ व्याख्या - इति नीति: सतामिति सम्बन्धः । नीतिमेवाह - सखा मित्रं तस्य भावः कर्म वेति सख्यम् । कीदृशमित्याह - पदानि सुप्तिङतानि वचनानि चलतः पादमुद्रा वा, ततश्च सप्तभिः सप्तसंख्यैः पदैरवाप्यमिति समासे समांसमीनाद्यश्वीनाद्यप्रातीनागवीनसाप्तपदीनम् [सि.हे. ७ । १ । १०५ ] इत्यनेन ईनप्रत्ययान्तं साप्तपदीनमिति निपात्यते । कर्त्तव्यमिति शेषः । शिष्टा हि सप्रश्रयं केनापि सह वचनसप्तकं भाषन्ते पदसप्तकं वा सञ्चरन्ति तावतैवाऽऽजन्म तेषां सख्यं सम्पद्यते । तथोत्तमगुणा ज्ञानादिधर्मोपेता आचार्यादयस्तेषामभ्यासः सामीप्यावस्थानम्, अथवोत्तमगुणा: गाम्भीर्यधैयौदार्यादयस्तेषामभ्यासः पौनःपुण्येन करणम्, तेन हि निर्गुणसंसर्गपरिहारः स्यात् । तथा परेषाम् आत्मव्यतिरिक्तानामुपक्रियोपकारस्तदुपष्टम्भविधानम् । तयापि सर्वजनस्नेहपात्रता स्यात् । तथा सत्कारः सबहुमानमुपचारः। केषु
Jain Education International
५८
For Private & Personal Use Only
www.jainelibrary.org