________________
५५
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
लक्षणादिविज्ञानां भर्ता स्वामी शिरोमणिकल्पः। तादृशोऽपि कश्चिच्छीलविकलो न गुरुः स्यादत आह-शीलं सर्वसावद्ययोगनिवृत्त्या चित्तसमाधानं तस्य धर्ता सम्यगात्मनि व्यवस्थापकः। तथा तमस्तोमं कुतीर्थिकसंसर्गादिजनितं मिथ्यात्वाद्यन्धकारवृन्दं तिरस्करोतीत्येवंशीलस्तस्मिन् ।
गुणानभिधायाथ विशेषेण दोषाभावमाह—परगुण-परप्राणप्रहाणादिबुद्धिद्वैषस्तस्य छेत्ता सर्वथोन्मूलकः। तथा रागस्य कामिन्यादिकमनीयपदार्थकामनालक्षणस्य भेत्ता विदारकः। एवं सम्यग्ज्ञानादिसमस्तगुणवानपि वचनचातुर्याभावे सति न व्याख्यानादिना परोपकारी स्यादत आह-वाचं श्रीमजिनेन्द्रभाषितसिद्धान्तरूपां वाणीं विन्दते विचारयति 'विद विचारणे' [पा० धा० १५४३] इति वचनात्, इति वाग्वेत्ता, स हि सम्यग्व्याख्यानादौ प्रवर्त्तत इति । अथोपदेशमाह-भो भव्याः! एवंविधे गुरौ भक्ता अभ्युत्थानादिसमस्तबाह्यप्रतिपत्तिभाजः स्थ भवथ, यूयम्, उपलक्षणं चैतदन्तरङ्गबहुमानस्येति । इह च वाग्वेत्तरीत्यादौ सम्यग्ज्ञानगरीयसां सुवचसामित्यादिभिः सह पौनरुक्त्याभासनेऽपि कथञ्चिदुक्तनीत्या भेद एवेति । समस्तस्यापि धर्मानुष्ठानपादपस्य शुभगुरुप्रतीतिस्तत्सेवा च बीजमिति तदुपदेश इति वृत्तार्थः ॥ १५ ।।
अथ भवाद्भीतिरिति सप्तमं द्वारं विवृण्वन् भवस्यैव भयोत्पादनोपयोगि स्वरूपमाह
प्रोत्सर्पहर्पसर्पन्मृतिजननजराराक्षसे नोकषायक्रूरोरुश्वापदौघे विषमतमकषायेद्धदावाग्निदुर्गे। मोहान्धा भोगतृष्णातुरतरलदृशो भूरि बंभ्रम्यमाणास्त्राणाय प्राणभाजो भववनगहने क्लेशमेव श्रयन्ते॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org