________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
५४
एवं बहुवचनेन गुरुस्वरूपमभिधाय तद्वचनावधारणोपदेशो दत्तः, अथैकवचनेन तत्स्वरूपाभिधानपूर्वकं तद्भक्त्युपदेशमाह
मुक्तौ गन्तरि मोहहन्तरि सदा शास्त्रस्थितौ रन्तरि ध्यानध्यातरि धर्मधातरि वरव्याख्यातरि त्रातरि। विद्वद्भर्त्तरि शीलधर्तरि तमस्तोमं तिरस्कर्त्तरि
द्वेषच्छेत्तरि रागभेत्तरि गुरौ भक्ताः स्थ वाग्वेत्तरि॥ १५॥ व्याख्या-गुरौ भक्ताः स्थ इति सम्बन्धः। कीदृशे गुरावित्याह-गच्छतीति गन्ता तृच्प्रत्यये सप्तम्येकवचने च गन्तरि अवश्यगामुके। क्वेत्याह-मुक्तौ मोक्षे, अत्र च भाविन्यपि मोक्षगमने तदर्थानुष्ठानप्रवृत्तेर्वर्त्तमाननिर्देशोऽप्यदुष्टः। कुतः एतत्? यतो मोहं द्रव्यक्षेत्रादिप्रतिबन्धरूपमूर्छा हन्तीत्येवं शीलो मोहहन्तेति ताच्छीलिकतन्प्रत्ययः। इह च 'न निष्ठादिषु [ ] इति कर्मणि षष्ठीनिषेधात् द्वितीयासमासो द्रष्टव्यः, ततो हन्तरि ध्वंसके। एवं यथासंभवं तृन्-तृचौ सप्तम्येकवचनं च सर्वत्र योज्यम्। कुतो मोहहन्ता? यतः शास्त्रस्थितौ प्रवचनप्रतिपादितक्रियामर्यादायां रन्ता अत्यन्तासक्त्या क्रीडनशीलः। तामेव स्थितिमाह-ध्येयालम्बना बुद्धिधारा ..ध्यानमिति तस्य ध्याता परमात्मादिध्येयानुचिन्तकः। तथा धर्मस्य श्रुतचारित्रादिरूपस्य ध्याता सादरविधानेन पोषकः। एवं स्वार्थसम्पदमभिधाय परार्थसम्पदमप्याह-वरः आक्षेपणी-विक्षेपणीप्रभृतिकथाप्रवर्तकत्वेन प्रधानो व्याख्याता भव्येभ्यो धर्मदेशकः। अत एव त्राता भवभयाद्रक्षकः। कुत एवं व्याख्याता? यतो विदुषां तर्कागमसाहित्य
१. न लोकाव्ययनिष्ठाखलर्थतनाम् [२। ३। ६९। ६२७] एषां प्रयोगे षष्ठी न स्यात् । .........निष्ठा.........दैत्यान् हतवान् विष्णुः। ...........-पा०सिद्धान्तकौमुदी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org