________________
५३
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
तथा आचारविनयः १, श्रुतविनयः २, विक्षेपणाविनय: ३, दोषनिर्घातविनयः ४। [९]३६।
तथा विद्या ससाधना स्त्रीदेवता वा । मन्त्रो पठितसिद्धः पुरुषदेवतो वा, ताभ्यां महीयांसो महत्तराः। तद्युक्ता हि प्रवचनप्रभावका भवन्ति। वैरस्वामि-खपुटाचार्यादिवत् । तथा सुष्ठ शोभनं सर्वोपकारकरणविषयत्वेन मनश्चित्तं येषां ते तथा। अत एव भव्यव्रजस्य मुक्तिगमनयोग्यप्राणिवर्गस्य प्रेयसाम् अत्यन्तप्रियाणां गिरः सदुपदेशरूपा वाचः। किमित्याह-धत्त धारयत मनसीति शेषः। तथोच्चैः अतिशयेन तपोऽनशनादि रूपं येषां ते तथा, गुणप्राग्भारवत्त्वादेव, तपसि लब्धे यत् पुनस्तपोग्रहणं तत्सर्वेषामपि प्रव्रजितानां तत्र सर्वदादरख्यापनार्थम् । तथा विकाशियशसां सर्वत्रप्रसृतकीर्तीनाम् । ज्ञानादिमतां हि कीर्तिप्रसरो न दुर्लभ इति भावः । कीदृश्यो गिरः? सम्यगविरुद्धाः सिद्धान्तसम्बन्धिन्यः। अथ कथं धत्त? सम्यगवैपरीत्येन, न तूपदिष्टविपर्ययेणेति । केषामित्याह-गुरूणां ज्ञानादिमदाचार्यादीनाम्। अनेन कुगुरुगिरामवधीरणमेव सूचितमिति । अत्र वृत्ते 'प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घह्रस्ववृन्दारकाणां प्रस्थस्फवरगरबंहत्रपद्राघहसवर्षवृन्दा० [सि.हे. ७-४-३८] इत्यनेन गुरुवृन्दारकबहुलप्रियशब्दानां यथासंख्यं गुणादिष्ठेयन्सौ वेत्यनेन इयन्सि प्रत्यये गरवृंदबंहप्रलक्षणादेशचतुष्टये सति गरीयसामित्यादीनां सिद्धिः। पटीयसां महीयसामित्यादेरप्येवमिति । अत्र वक्ष्यमाणे च वृत्तेऽनुप्रासविशेषोऽलङ्कार इति वृत्तार्थः॥ १४ ॥
१. 'प्रिय-स्थिर-स्फिरोरु-गुरु-बहुल-तृप्र-दीर्घ-वृद्ध-वृन्दारकस्येमनि च प्रा-स्था-स्फावर-गर-बंह-त्रप-द्राघ-वर्ष-वृन्दम् [सिद्धहेम० ७। ४। ३८] गुणाङ्गाद् वेष्ठेयसू' [सिद्धहेम० ७। ३। ९] । 'प्रिय-स्थिर-स्फिरोरु-बहुल-गुरु-वृद्ध-दीर्घ-वृन्दारकाणां प्र-स्थ-स्फ-वर्-बंहि-गर्-वर्ष-त्रप्-द्राघि-वृन्दा:' [पा० ६।४। १५७] पा० सिद्धान्तकौमुदी २०१६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org