________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
કર
इत्यादयः, व्याख्या-गणः समुदायो भूयानतिशयवान् वा गुणानां साधूनां वा यस्यास्ति स गणी आचार्यस्तस्य संपत्-समृद्धिर्भावरूपा गणिसंपत् साऽष्टधा। तत्राचरणमाचारः अनुष्ठानं स एव संपद्विभूतिस्तस्य वा संपत् संपत्तिः प्राप्तिराचारसंपत्, सा चतुर्द्धा । तद्यथा-संयमध्रुवयोगयुक्तता चरणे नित्यं समाध्युपयुक्ततेत्यर्थः॥ १॥ असंप्रग्रह आत्मनो जात्याद्युत्सेकरूपग्रहवर्जनमिति भावः॥ २॥ अनियतवृत्तिरनियतविहार इति योऽर्थः॥ ३ ॥ वृद्धशीलता वपुर्मनसोर्निर्विकारतेति ॥ ४॥ यावत्। [१] एवं श्रुत बहुश्रुतता युगप्रधानागमतेत्यर्थः १, परिचितसूत्रता २, विचित्रसूत्रता स्वसमयपरसमयभेदात् ३, घोषविशुद्धिकारिता उदात्तादिविज्ञानात् ४, [२]. शरीर ४-आरोहपरिणाहयुक्तता उचितदैर्घ्यविस्तरतेत्यर्थः १, अनवत्रपता अलज्जनीताङ्गता इत्यर्थः २, परिपूर्णेन्द्रियता ३, स्थिरसंहननता चेति ४, [३]. वचनसंपत् आदेयवचनता १, मधुरवचनता २, अनिश्रितवचनता मध्यस्थवचनतेत्यर्थः ३, असंदिग्धवचनता चेति ४। [४]. वाचना विदित्वोद्देशनम् ९, विदित्वा सामुद्देशनम्, पारिणामिकं शिष्यं ज्ञात्वेत्यर्थः २, परिनिर्वापवाचना पूर्वादत्तालापमधिगम्य या शिष्यस्य पुनः सूत्रदानमित्यर्थः ३, अर्थनिर्यापणा अर्थस्य पूर्वापरसांगत्येन गमनिकेत्यर्थः ४, [५]. मति ४ अवग्रहेहापायधारणाभेदात् ४। [६]. प्रयोगः, इह प्रयोगो वादविषयस्तत्रात्मपरिज्ञानं वादविषये १, पुरुषपरिज्ञानम्, किंनयोऽयं वाद्यादिः २, क्षेत्रपरिज्ञानम् ३, वस्तुपरिज्ञानम्, वस्त्विह वादकाले राजामात्यादि ४। [७]. संग्रहपरिज्ञानं संग्रहः स्वीकरणम् १, तत्र परिज्ञा ज्ञानं नामाष्टमी संपत्, सापि चतुर्द्धा, तद्यथा-बालादियोग्यक्षेत्रविषया १, पीठफलकादिविषया २, यथासमयस्वाध्याय-भिक्षादिविषया ३, यथोचितविनया चेति ४। [८].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org