________________
५१
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
पेतमलीकत्वादिद्वात्रिंशद्दोषविकलं वचः वचनं येषां ते तथा तेषाम् । एवं षष्ठ्यन्तता वक्ष्यमाणेषु सर्वपदेषु स्वयमेव योज्या। अनेन वचनसंपदुक्ता। तथा चारित्रिषु सम्यक्सम्पूर्णसंयमवत्सु वृन्दीयसां वृन्दारकाणां श्रेष्ठतराणामिति यावत् । अनेन सम्पूर्णक्रियावत्त्वमेषां प्रकाशितम् । क्वचिच्चारित्रेति पाठस्तत्र दण्डयोगाद्दण्ड इतिवच्चारित्रयोगाच्चारित्राः साधव इति व्याख्येयम् । चारित्रादिगुणोपेता अपि नाऽन्वीक्षिकीविद्याविकलाः स्वपक्षव्यवस्थापनपरपक्षक्षेपणपटवः स्युरत आह–अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः [न्यायसू० ], न्यायः प्रतिज्ञादिपञ्चावयवं वाक्यम्, ततश्च तर्कप्रधानो न्यायस्तर्कन्यायस्तत्र पटीयांसः सम्यगवबोधे प्रयोगे च निपुणाः, तेन हि प्रायोऽतीन्द्रियोऽप्यर्थोऽनायासेनैव व्यवस्थाप्यते । तथा शुचयः निर्मला गुणा आचारसम्पदादयस्तेषां प्राग्भारः बाहुल्यं तेन बंहीयांसो बहुलाः, ते चाऽऽचारादिगुणा एवम्
आयाराई अट्ठ उ तह चेव य दसविहो [हो]इ द्विइकप्पो बारस तव छावस्सय सूरिगुणा हुति छत्तीसं॥
आचारादयश्च संपदोऽष्टौ--
आयारसुयसरीरे वयणे वायणमई पओगमई। एएसु संपया खलु अट्ठमिया संगहपरिन्ना॥ एसा अट्टविहा खलु एक्केक्कीए चउव्विहो भेओ। इणमो उ समासेणं वुच्छामि अहाणुपुव्वीए॥ अट्ठविहा गणिसंपय चउग्गुणा नवर हुंति बत्तीसं। विणओ य चउन्भेओ छत्तीस गुणा इमे तस्स॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org