________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
५०
सप्तेति सप्तसंख्यानि तत्त्वानि। पुण्यपापयोर्बन्ध एवान्तर्भावात्। तथा च तत्त्वार्थसूत्रम् ‘जीवाजीवात्रवसंवरनिर्जराबन्धमोक्षास्तत्त्वम् ' [तत्त्वार्थः १। ४] इति । अन्यत्राप्युक्तम्
समयम्मि सत्त तत्ताणि तित्थनाहेण वन्नियाणि जओ। पुन्नं पावं च दुवे बंधपयंमी पसज्जति॥
-
तथा द्वे इति द्विसंख्यं तत्त्वम्, जीवाजीवरूपतया। आस्रवादीनां जीवाजीवपरिणामविशेषतया तयोरेवान्तर्भावविवक्षया। नव च नवसंख्यानि तत्त्वानि प्रसिद्धान्येव। एवं च तत्त्वमित्येकवचनान्तनिर्देशेऽपि तत्तत्संख्यादिसम्बन्धेऽत्र द्विवचन बहुवचनाभ्यामपि योजने विरोधाभावात् । जीवतत्त्वाभिप्रायेण तावत् सर्वज्ञोक्तत्वादयो हेतवः सर्वे योजिताः। अजीवादिविषये यथासम्भवं स्वबुद्ध्योत्प्रेक्ष्य योजनीया इति वृत्तार्थः ॥ १३ ।।
अथ प्रतीतिः शुभगुरुष्विति षष्ठद्वारं गुणवद्गुरूपदर्शनद्वारेण तद्वचनाश्रयणमुपदिशन्नेव स्पष्टयन्नाहसम्यग्ज्ञानगरीयसां सुवचसां चारित्रवृन्दीयसां
तर्कन्यायपटीयसां शुचिगुणप्राग्भारबंहीयसाम्। विद्यामन्त्रमहीयसां सुमनसां भव्यव्रजप्रेयसां ।
धत्तोच्चैस्तपसां विकाशियशसां सम्यग्गुरूणां गिरः ॥१४॥ व्याख्या-भो भव्याः! गुरूणां गिरो मनसि धत्तेति संबन्धः। कीदृशानामित्याह-सम्यग्ज्ञानेनावितथबोधेन गरीयसां अतिशयेन गुरवो गरीयांसस्तेषाम्। अनेन ज्ञानसंपदुक्ता। तथा सुष्ट शोभनं माधुर्यादिगुणो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org