________________
४९
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
अन्यैरपरैः प्रतिवादिभिः प्रमाणाभासैः। न हि प्रमाघटितं प्रमाणाभासैः क्षोभ्यत इति। तथा न्याय: पञ्चावयवं वाक्यं तस्य स्थानम् आधारः। सम्यग्ज्ञानप्रतीतोऽप्यर्थो न्यायेन विषयीक्रियमाणो दृढतरप्रतीतिविषयो भवति । यथा पर्वतनितम्बे वह्निरिति । तथा स्फुट: व्यक्तः क्रमः प्रवर्त्तमानप्रमाणपरिपाटिर्यत्र तत्तथा। अतत्त्वे हि प्रकृतीश्वरादौ न काचिज्जीवादिवत्प्रमाणक्रमप्रवृत्तिः। यथा च जीवादौ प्रत्यक्षानुमानागमप्रमाणक्रमप्रवृत्तिस्तथोपदर्शितं प्राक्। तथा स्याच्छब्दः कथञ्चिदर्थे, तेन स्यान्नित्यो जीवः कथञ्चिदनित्योऽपीत्यादिको वादः स्याद्वादोऽनेकान्तवादस्तस्य धीर्बुद्धिस्तां भजत आश्रयतेति तत्त्वम् । यत्तु तत्त्वं न भवति तन्न स्याद्वादधियं भजते। यथा नित्य एव आत्मेति। तथा युक्त्या यदि जीवो न स्यात् संसारापवर्गों न स्यातामित्यादि तर्करूपयोपपत्त्या युक्तमुपपन्नमिति । अतत्त्वे तु यदि गगनकमलं न स्यान्न सुरभि स्यात्, सुरभि चेदमित्येवं रूपस्तर्काभास एव विपर्ययापर्यवसितत्वात्। तथा प्रतीतेः साक्षात्काररूपप्रत्ययस्य पदं स्थानम्। भवति ह्यात्मनि अहमित्येवं रूपो मानसः साक्षात्कारः, प्रमाघटितत्वं ह्यानुमानिकागमिकसम्यग्ज्ञानविषयत्वेऽप्युपपद्यते। प्रतीतिपदत्वं तु साक्षात्कारे एवेत्यपौनरुक्त्यम् । तथा अक्षुण्णं परैरनिराकृतं लक्ष्म उत्पादव्ययध्रौव्ययुक्तं सत् [तत्त्वार्थ० ५ । २९] इति वस्तुलक्षणं यस्य तत्तथा, अव्यभिचारि चेदं लक्षणं सर्वत्रेत्यनिराकार्यम् । चः समुच्चये, क्वचिदक्षुण्ण- लक्ष्मेति चकाराभावे ‘सत् सप्त द्वे' इति पाठस्तत्र सदिति विद्यमानं तत्त्वं न त्वसद् गगनारविन्दादीत्यर्थः। एवं च सत्युपदिश्यते, किमित्याह-अवेत जानीत भो भव्याः! यूयम्। किमित्याहतत्त्वं पारमार्थिकपदार्थरूपम्। कथमित्याह-बहुधा अनेकधा। कस्मादित्याहविवक्षावशात् क्वचित् कस्याप्यन्तर्भावानन्तर्भावविचक्षणेन । अनैकध्यमेवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org