________________
धर्मशिक्षा प्रकरणं सवृत्तिकम्
ऽकारणस्य तस्यापि सत्त्वविरोधः स्यात्, न हि जीवाजीवव्यतिरिक्तं तस्यापि कारणमस्ति । ततः पदार्थान्तरस्याभावात् । तयोश्च नैकान्तान्नित्यत्वाऽनित्यत्वाभ्यामास्रवादिहेतुता सम्भवति । तादृशयोः सर्वथार्थे क्रियाविरोधातस्मात् परिणामित्वे सत्येव तयोरप्यास्रवादिहेतुत्वमिति । पदार्थद्वयाव्यतिरिक्तौ कथंचित्सकारण बन्धमोक्षावित्थं प्रतिपत्तव्यौ । अन्यथा तद्विषये सम्यग्ज्ञानाभावेन सम्यक्श्रद्धानानुपपत्तेः सकलस्यापि चारित्रस्य मोक्षहेतुत्वं न स्यादिति सुष्ठुक्तं भगवता प्रकरणकारेण श्रद्धत्तेति प्रमाणोपपन्नतया ज्ञात्वा तथेति प्रत्ययविषयान् कुरुतेत्यर्थः । तादृशश्रद्धानस्यैव मोक्षकल्पतरुबीजकल्पत्वादिति वृत्तार्थः ॥ १२ ॥
अथानेकैर्हेतुभिस्तत्त्वमेव व्यवस्थापयंस्तत्संख्याभेदमाह
सर्वज्ञोक्तमिति प्रमाघटितमित्यक्षोभ्यमन्यैरिति
न्यायस्थानमिति स्फुटक्रममिति स्याद्वादधीभागिति । युक्त्यायुक्तमिति प्रतीतिपदमित्यक्षुण्णलक्ष्मेति च
सप्त द्वे नव वेत्यवेत बहुधा तत्त्वं विवक्षावशात् ॥ १३॥ व्याख्या -अवेत तत्त्वं बहुधेति सम्बन्धः । तत्र पारमार्थिकः पदार्थो जीवादिस्तत्त्वम्। सम्यग्ज्ञायमानं यत् संसारबीजं निकृन्तति तत्तत्त्वमिति वा । कुतस्कुत:? इत्यत्र हेतुनवकमाह - सर्वज्ञेनातेन यथावस्थितवस्तुविदा उक्तं प्रतिपादितमिति हेतोः । न हि सर्वज्ञः कदाचिदपारमार्थिकं वन्ध्यासुतादिकं तत्त्वतया प्ररूपयति । तस्मादवश्यं जीवादिः पारमार्थिक एव भावः । इति शब्दाः सर्वेऽपि हेत्वर्था द्रष्टव्याः । तथा प्रमा सम्यग्ज्ञानं तया घटितं संघटनानीतम् । न हि सम्यग्ज्ञानघटितं कदाचिदपारमार्थिकम्, प्रत्यक्षोपलब्धघटवत् । अत एव च अक्षोभ्यम् अनिराकार्यम् । कै: ?
Jain Education International
४८
For Private & Personal Use Only
www.jainelibrary.org