________________
४७
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
साधकत्वात् । तदुक्तम्
नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हं पि समाओगे मुक्खो जिणसासणे भणिओ॥
[आवश्यकनि० १०३] यत्तु सम्यक्त्वस्य ज्ञानादतिशयप्रतिपादनमावश्यके तत्त्वार्थसंग्रहादौ च शास्त्रे तत्र तत्रोपलभ्यते । तज्ज्ञाने सत्यपि श्रद्धानमन्तरेण तस्याकिञ्चित्करत्वान्मोक्षाबीजकल्पत्वाच्च । न तु सम्यग्ज्ञानस्य मोक्षानुपयोगित्वोपदर्शनार्थम् । तस्य हि सम्यक्चारित्रहेतुत्वेन तत्रात्यन्तोपयोगित्वादतो ज्ञानमवश्यमेषामन्वेषणीयमिति । तत्र यथा प्रमाणोपपन्नत्वमेतेषां तथा प्रागेव प्रतिपादितम्। साध्यसाधनादिरूपतया तु परस्परापेक्षित्वमेवम्। तथाहि सकलानुष्ठानफलरूपमोक्षार्थिभिस्तावन्मोक्षः प्रमाणतोऽधिगन्तव्योऽन्यथा तत्रेच्छाभावात्तदुपाये प्रवृत्त्यनुपपत्तेः, न ह्य नधिगतसस्यसद्भावस्तदुपाये कृष्यादौ प्रवर्त्तते । तदुपायप्रवृत्तिरपि सुखार्थिनां चन्दनादिप्रवृत्तिवत्तदुपायरूपसंवर-निर्जरापदार्थद्वयप्रतिपत्तिमन्तरेण नोपपद्यते। अज्ञातस्योपायस्यापि प्रेक्षापूर्वकारिप्रवृत्तिविषयत्वाभावात्। ततोऽशेषकर्मक्षयार्थिनां तदुपायैकदेशकर्मक्षयलक्षणसंवरनिर्जरयोः प्रवृत्तिरपि तज्ज्ञानपूर्विकैवेति तेऽपि ज्ञातव्ये। न ह्यन्यथाभिनवकर्मोपादानरूपास्रवनिरोधः सम्भवति। तथा पुण्यापुण्यप्रकृतिप्रायोग्यकर्मवर्गणासम्बन्धरूपो बन्धोऽपि रसायनोपशमनीयमहाव्याधिवदवश्यं तन्निवर्तनीयत्वेन ज्ञातव्यः। अज्ञातस्वरूपस्योपायनिवर्त्तनीयत्वायोगात्। संवरादिनिवर्तनीयत्ववत्तस्यास्रवोत्पाद्यतापि ज्ञेया। अन्यथा महाव्याधिनिदानाज्ञानवत्तस्यापि तन्निवर्त्तनीयत्वनिश्चयो न स्यात् । आस्रवस्यापि च बन्धहेतोः सनिमित्तत्वेन जीवाजीवरूपहेत्वाक्षेपात्तत्कारणता ज्ञातव्या । अन्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org