________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
४६
तराण्यपि। श्रद्धत्त इति प्रमाणोपपन्नतया प्रतीत्य तथेति शुभात्मपरिणामरूपरुचिविषयाणि विधत्त तत्त्वानि यथावत् प्रमाणोपदर्शितवस्तुरूपाणि, भो! इति श्राद्धश्रोतृणामामन्त्रणम्। हितैषिणा हि श्रोतारः सम्यगामन्त्र्य हितमुपदेष्टव्या इति शिष्टसमाचारसमापनार्थं सम्बोधनमिति। केवलं श्रद्धानमपि न प्रमाणोपपन्नत्वेन परस्परकार्यकारणपरिणामरूपतया सापेक्षत्वेन वाऽज्ञाते सम्यक् सम्भवन्तीति। तानि पूर्वप्रमाणोपपन्नत्वादिना ज्ञातव्यानि। अत्र चार्थे आगमोऽप्येवम्
जो जीवे वि न याणइ अजीवे वि न याणई। जीवाजीवे अयाणंतो कहं सो नाहीय संजमं॥
[दशवै० ४। १२] इत्यादिस्तथा 'जो जीवे वि वियाणाई'[दशवै० ४।१३] इत्यादिश्च। तथा 'जया पुण्णं च पावं च बंधं मुक्खं च जाणइ [दशवै० ४। १६] इत्यादिश्चान्वयव्यतिरेकाभ्यां तज्ज्ञानमेव मोक्षानन्तरकारणचारित्रहेतुत्वेनोपदर्शयति । न च माषतुषादीनां तथाविधज्ञानाभावेऽपि स्वकार्यसाधकत्वश्रुतेस्तदनादरणीयम् । तेषामपि गुरुविषयाद्वैतप्रतिपत्तितत्पारतन्त्र्यरूपनैश्चयिकज्ञानाभ्युपगमात् । न चान्येषामपि तदेवास्तु किं श्रुताध्ययनश्रवणादिज्ञानेनेति वाच्यम्? तथा सति- 'पढमं नाणं तओ दया'[दशवै० ४।१०] इत्यादि वचनं व्यर्थमापद्येत । किं चैकस्य तथोपलम्भे सर्वत्र तथाभ्युपगमे श्रुतज्ञानवच्चारित्रमप्यनादरणीयं स्यात् । मरुदेविस्वामिनीभरतचक्रिप्रभृतीनां तत्प्रतिपत्तिमन्तरेणापि केवलोत्पत्तिश्रवणात्। तस्मान्न कादाचित्कविशिष्टाध्यवसायवशात् स्वकार्यसाधकप्राणिमात्रदृष्टान्तेन सर्वसांव्यवहारिकशास्त्रीयज्ञानप्रतिक्षेपः कर्त्तव्यः। ज्ञानचारित्रयो : समुदितयोरेव निःश्रेयस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org