________________
४५
धर्मशिक्षा प्रकरणं सवृत्तिकम्
पूर्वार्जितं क्षपयतो यथोक्तैः क्षयहेतुभिः । संसारबीजं कार्त्स्न्येन मोहनीयं प्रहीयते ॥ ततोऽन्तराय - ज्ञानघ्न- दर्शनघ्नान्यनन्तरम् । प्रहीयन्तेऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥
[ तत्त्वार्थ० भा० प्रशस्ति० श्लो० २। ३ । ] इति। तदियं सर्वापि व्यवहारसंवररूपत्वादेकदेशकर्मक्षयहेतुरेवेति निर्जरा । निश्चयसंवरस्य तु मोक्षहेतुत्वात्तथाहि —घातिकर्मचतुष्कक्षयानन्तरं ध्यानान्तरे वर्त्तमानः क्षायिकज्ञानदर्शनचारित्रवीर्यातिशयसम्पन्नः केवली जायते । ततोप्यन्तर्मुहूर्त्तपरिशेषायुष्कसयोगिकेवली प्रथमं बादरकाययोगेन बादरौ मनोवाग्योगौ निरुणद्धि । ततः सूक्ष्मकाययोगेन बादरकाययोगं सति तस्मिन् सूक्ष्मयोगस्य निरोद्धुमशक्यत्वात् । ततः सर्वबादरयोगनिरोधानन्तरं सूक्ष्मक्रियमनिवर्त्ति तृतीयं शुक्लध्यानमध्यास्ते । तत्र च भवोपग्राहिषु त्रिषु केवलिसमुद्घातेन आयुषा सह समीकृतस्थितिषु स्वत एव वा तथाविधेषु सत्सु सूक्ष्मकाययोगेन सूक्ष्मौ मनोवाग्योगौ निरुणद्धि । ततस्तमेव सूक्ष्मकाययोगं स्वयमेव निरुणद्धि । ततस्तन्निरोधानन्तरं समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायन् पञ्च ह्रस्वाक्षरोच्चारणमात्रं कालं शैलेशीप्रविष्टो भवति । तत्र च शैलेश्यवस्थारूपे निश्चयसंवरे सर्वबन्धास्रवनिरोधः, ततोऽयोगिकेवली नि:शेषिताशेषकर्मांशोऽवाप्तशुद्धनिजस्वभावस्तत्स्वाभाव्यात् प्रदीपवदूर्ध्वं गच्छत्या लोकान्तादेकसमयेनेत्येवं सर्वसंवरान्मोक्ष एव, देशसंवरात्तु निर्जरेति स्थितम् ॥
?
इति शब्दः परिसमाप्तौ चः समुच्चये स्मृता इति क्रिया सर्वत्र यथायोगं द्रष्टव्या । नव इति, नवेति नवसंख्यानि विवक्षावशेन, न त्वधिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org