________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
दर्दुराङ्कदेवजीवो नन्दमणिकारः । न चात्र हेतोरसिद्धिस्त्रिदशैरपि तीर्थकृत्प्रवचनात् मनागप्यप्रच्यावितमानसत्वेन क्षायिकसम्यक्त्वस्य निश्चितत्वात्तत्रेति। कर्मक्षयतारतम्यं तु ज्ञानदर्शनसुखोपशमदीर्घायुष्कसुरूपसुकुलादितारतम्यलाभवत्सु प्राय: सर्वप्राणिषु सुप्रतीतमेवेति । आगमस्तु तपसा निर्जरा च [तत्त्वार्थ० ९ । ३] इत्याप्तवचनं पूर्वप्रतिपादितश्च । तपश्च निबिडतमबन्धानामपि कर्मणां निर्जरणक्षममिति कारणे कार्योपचारात्तप एव निर्जरेति । तदुक्तम्
जम्हा निकाइयाण वि कम्माण तवेण होइ निज्जरणं । तम्हा उवयाराओ तवो इहं निज्जरा भणिया ॥
[
J
तच्च बाह्याभ्यन्तरभेदाद् द्वादशधेति । निर्जराऽपि द्वादशविधा, अथवा कनकावली-सिंहविनिकीडितादिभेदादनेकविधमिति । तपो हि शुभात्मपरिणामविशेषलक्षणतया धर्मध्यानरूपत्वेन श्रेयोहेतुत्वादास्रवप्रत्यनीकत्वाच्चास्रवनिरोधः संवर: [ तत्त्वार्थ० ९ । १] इति वचनात् संवरोऽपि । तथाहिबाह्याध्यात्मिकभावानां याथात्म्यं धर्मस्तस्मादनपेतं धर्म्यं ध्यानं गुप्तिसमित्यनुप्रेक्षादिकमपि सर्वं तादृशमिति धर्म्यम् । एवं शुक्लध्यानमपि केवलं तदाद्यभेदात् पृथकत्ववितर्कसविचाराख्यात् प्रकर्षकोटिप्राप्तादुपशमकस्य क्षपकस्य वा मोहनीयमात्रोपशमक्षयरूपा निर्जरा । एकत्ववितर्काविचाराख्यात् तु द्वितीया सद्भेदादतिशयकोटिसमारूढादकषायछद्मस्थवीतरागाणां निःशेषमोहक्षयानन्तरं युगपत् घातिकर्मत्रयक्षयरूपा निर्जरा भवति । यदाह
वाचकमुख्यः
-:
Jain Education International
४४
For Private & Personal Use Only
www.jainelibrary.org