SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ४३ धर्मशिक्षा-प्रकरणं सवृत्तिकम् कथञ्चित् मुक्तानां तत्प्ररूपणप्रक्रमे मुक्ता अपि प्ररूप्यन्ते । ते च स्वलिङ्गान्यलिङ्गगृहिलिङ्गसिद्धाः स्त्रीपुंनपुंसकसिद्धाः तीर्थकरातीर्थकरसिद्धास्तीर्थातीर्थसिद्धाः एकानेकसिद्धाः प्रत्येकबुद्ध-बुद्धबोधितस्वयम्बुद्धसिद्धाश्चेति च पञ्चदशधा। तदुक्तम् सन्नगिहिलिंग थी नर नपुंस तित्थयर इयर तित्थियरा। एगाणेगा पत्तेयबुद्ध-सयंबुद्धसिद्धा य॥ इति अयं सकलानुष्ठानफलभूतत्वात् सर्वपदार्थानां मूर्धाभिषिक्तः। एतदर्थत्वात् सुविशुद्धज्ञानदर्शनचारित्राणामिति । देशविनिर्जरेति च इति । कर्मणां विपाकात्तपसो वा निर्जरणं निर्जरा क्षयो विविधा उत्कर्षादितारतम्यवती। विशिष्टा चात्यन्तिकी निर्जरा विनिर्जरा, देशेन एकद्व्यादिकर्मैकदेशक्षयरूपेण तदंशमिथ्यात्वकषायादिक्षयरूपेण वा विनिर्जरा देशविनिर्जरेति। अस्या अपि सद्भावे अनुमानमागमश्च प्रमाणे, तत्रानुमानं तावत् केवलज्ञानोत्पत्त्यन्यथानुपपत्तिरेव । तथा सत्स्वपि भवोपग्राहिषु चतुर्षु कर्मसु केवलोत्पत्तिरुपलभ्यते। अतोऽनुमीयते, नूनमस्ति कर्मणाम् एकदेशक्षयो यस्यैकदेशस्य घातिकर्मचतुष्टयलक्षणस्य क्षयात् केवलज्ञानोत्पत्तिः स एव निर्जरेति । प्रयोगस्त्वेवं-श्रीवीरः समवसृतौ धर्ममादिशन्, घातिकर्मक्षयवान्, तत्कार्यकेवलज्ञानवत्त्वात् । यो यत्कार्यवान् स तत्कारणवान् भवति। यथा वेपमानाऽधररक्तलोचनः क्रोधवानिति । यथा वा श्रेणिकराजो मिथ्यात्वादिमोहप्रकृतिसप्तकक्षयवान्, क्षायिकसम्यक्त्ववत्त्वात्, कृष्णवदिति साधर्म्यदृष्टान्तो, वैधर्म्यदृष्टान्तस्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy