Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 99
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् ७० क्रीडादिष्वपि द्रष्टव्यम्। तथा क्रीडा वसन्तादावुद्यानसलिलसम्भोगादिरूपा विलासचेष्टा । सापि किमित्याह-व्रीडा परमार्थतो लज्जा जुगुप्साहेतुचेष्टात्वात्। यद्यपि कामिनां परमोत्सवोऽसौ तथाऽपि मुनीनां यथावस्थितवस्तुतत्त्वावगमवतां 'सव्वं गीयं विलवियं सव्वं नर्से विडंबणा [ ] इत्यादि परिभावयतां बालकधूलीगृहरमणमिव प्रतिभासते, मनसि चेतसि भिन्नवाक्यत्वात् न पूर्ववाक्यस्थचित्तपदेन पौनरुक्त्यमिति । तथा मनसिजस्य कामस्योद्दामा उद्भटा अत्युत्कटास्ताश्च ता लीलाश्च कटाक्षविक्षेपविभ्रमविब्बोकादयः कामिजनानन्दकन्दायमानास्ता अपि। किमित्याह-हीला परमार्थतो निन्देव निन्दा, तद्वत् सन्तापहेतुत्वान्मुनीनां मनसीत्यत्रापि सम्बध्यते । यच्च यथा तेषां मनसि विशते तदेव तत्त्वमिति । तत एषाऽपि तापहेतुरेव। तथा गात्रं शरीरमप्यनेकाशानिबन्धनम्। तदपि किमित्याह-पात्रं भाजनम्। केषामित्याह-विचित्रा अनेकाः प्रकृतयः वातपित्तश्लेष्मतत्सन्निपातादिरूपा धातवस्ताभिः कृतो विहितः समुद्भवलक्षणः समागमो येषां ते तथा। ते च ते रोगव्रजाश्च ज्वरादिव्याधिसमूहास्तेषाम् । व्रजशब्देनैव बहुवचनोपादानं चैकप्रकृतीनामपि बहुत्वसंसूचनार्थम् । तथाहि वातप्रकृतयोऽशीतिः, एवं पित्तप्रभवाश्चत्वारिंशत्, श्लेष्मप्रभवा विंशतिरिति युक्तं व्रजानामपि बहुत्वम्। तथा चोक्तं वाग्भटसारोद्धारे अशीतिर्वातजाः रोगाश्चत्वारिंशच्च पित्तजाः। विंशतिः श्लेष्मजाश्चैव शिष्टाः स्युः सान्निपातिकाः॥ [ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142