________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
७०
क्रीडादिष्वपि द्रष्टव्यम्। तथा क्रीडा वसन्तादावुद्यानसलिलसम्भोगादिरूपा विलासचेष्टा । सापि किमित्याह-व्रीडा परमार्थतो लज्जा जुगुप्साहेतुचेष्टात्वात्। यद्यपि कामिनां परमोत्सवोऽसौ तथाऽपि मुनीनां यथावस्थितवस्तुतत्त्वावगमवतां 'सव्वं गीयं विलवियं सव्वं नर्से विडंबणा [ ] इत्यादि परिभावयतां बालकधूलीगृहरमणमिव प्रतिभासते, मनसि चेतसि भिन्नवाक्यत्वात् न पूर्ववाक्यस्थचित्तपदेन पौनरुक्त्यमिति । तथा मनसिजस्य कामस्योद्दामा उद्भटा अत्युत्कटास्ताश्च ता लीलाश्च कटाक्षविक्षेपविभ्रमविब्बोकादयः कामिजनानन्दकन्दायमानास्ता अपि। किमित्याह-हीला परमार्थतो निन्देव निन्दा, तद्वत् सन्तापहेतुत्वान्मुनीनां मनसीत्यत्रापि सम्बध्यते । यच्च यथा तेषां मनसि विशते तदेव तत्त्वमिति । तत एषाऽपि तापहेतुरेव। तथा गात्रं शरीरमप्यनेकाशानिबन्धनम्। तदपि किमित्याह-पात्रं भाजनम्। केषामित्याह-विचित्रा अनेकाः प्रकृतयः वातपित्तश्लेष्मतत्सन्निपातादिरूपा धातवस्ताभिः कृतो विहितः समुद्भवलक्षणः समागमो येषां ते तथा। ते च ते रोगव्रजाश्च ज्वरादिव्याधिसमूहास्तेषाम् । व्रजशब्देनैव बहुवचनोपादानं चैकप्रकृतीनामपि बहुत्वसंसूचनार्थम् । तथाहि वातप्रकृतयोऽशीतिः, एवं पित्तप्रभवाश्चत्वारिंशत्, श्लेष्मप्रभवा विंशतिरिति युक्तं व्रजानामपि बहुत्वम्। तथा चोक्तं वाग्भटसारोद्धारे
अशीतिर्वातजाः रोगाश्चत्वारिंशच्च पित्तजाः। विंशतिः श्लेष्मजाश्चैव शिष्टाः स्युः सान्निपातिकाः॥
[
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org