________________
७१
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
तथा च तदप्युत्तापहेतुरेवेति सर्वस्याप्यस्य निवृत्तिः कर्तुमुचिता। परं सोऽहम् इति अनेन निविडतरदुःकर्मजलदपटलसमाच्छादितसद्बुद्धितरणिरूपमात्मानं मानसप्रत्यक्षवेद्यं तच्छब्देन परामृशति। अनुभूतार्थविषयस्य तच्छब्दस्य यच्छब्दोपादानमन्तरेणापि 'ते लोचने प्रतिदिशं विधुरे क्षिपन्ति [ ] इत्यादि बहुधा प्रयोगदर्शनात्। ततश्च सोऽहं दुःकर्मबहलः, मोहं तत्तद्विषयगाढप्रतिबन्धम्, तदपि तथापि यद्यप्येषामेवमहं सर्वेषामपि तापहेतुत्वमवगच्छामीति भावः। निहन्तुं निवर्तयितुं कथमपि केनापि प्रतिपक्षभावनाभ्यासाद्युपायविधानेनापि प्रकारेण न नैव शक्तः समर्थः। किमित्यत आह-प्रेम प्रीतिविशेषस्तेन रक्तः कान्तादिष्वनुरागवान्। रक्ता हि निर्गुणमपि न त्यक्तुमीशत इति भावः। तदेवं कान्तादीनां 'परिणतिविरस पनसम्[ ] इतिवन्निन्दायाः परित्यागे तात्पर्यमित्येतानपि परिहत्य स्वस्य शान्तिं कुरुध्वमिति वृत्तार्थः॥ २५ ॥
अथ सुखहतिरिति द्वादशं द्वारं विभजन् धनादिसमस्तसांसारिकवस्तुचञ्चलताप्रदर्शनेन संसारे सुखाभावमाहअर्थे निःसीम्नि पाथःप्लवजवजयिनि प्रेम्णि कान्ताकटाक्षप्रक्षेपस्थेम्नि धाम्नि क्षयपवनचले स्थाम्नि विद्युद्विलोले। जीवातौ वातवेगाहतकमलदलप्रान्तलग्नोदबिन्दुव्यालोले देहभाजामिह भवविपिने सौख्यवाञ्छा वृथैव ॥२६॥ व्याख्या-भवविपिने सौख्यवाञ्छा वृथैवेति सम्बन्धः। कुतो वृथा? यतस्तत्र यानि सुखसाधनानि धनादीनि तानि सर्वाण्यप्यनवस्थायीनि, ततः कारणाभावात् कार्याभाव इति सुखस्यापि निवृत्तिस्तत्र—अर्थे चित्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org