________________
६९
चन्द्रेन्दीवर- कुन्द- पूर्णकलश- श्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥
[
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
] इति ।
अथवा व्यसनशतमहेत्यादि विशेषणमिहाप्यौचित्यात् सम्बध्यते, काकाक्षिगोलकन्यायेन । एवं चायमपि व्यामोहाय विपर्ययज्ञानविशेषाय सम्पद्यत इति शेषः । भवति हि मदनातुरस्यागम्यायामपि योषिति गम्येयमिति प्रतीतिः । इतिशब्दों हेत्वर्थस्ततो यत एते मानादयः शत्रवः सर्वेऽप्येवंरूपा आजन्मसन्तापकारिण एव । ततो जित्वाऽभिभूयान्तरं मनोमात्रप्रभवमरिविसरं शत्रुसमूहम्, न तु जनकघातकादिवद् बाह्यमिति भावः। स्वस्यात्मनः शान्तिं सन्तापोपशमरूपस्वस्थतां कुरुध्वं विधत भो भव्याः ! भवन्ति हि क्रोधादयोऽपि सन्तापकारिण इति वृत्तार्थः ॥ २४ ॥
एवजातीयान्यन्यान्यपि सन्तापकारीणि वर्जनीयान्युपदर्शयंस्तत्रात्मनोऽप्रभविष्णुत्वमाकलयन् सविषादमाह–
कान्ता कान्ताऽपि तापं विरहदहनजं हन्त ! चित्ते विधत्ते क्रीडा व्रीडा मुनीनां मनसि मनसिजोद्दामलीलाऽपि हीला । गात्रं पात्रं विचित्रप्रकृतिकृतसमायोगरोगव्रजानां सोऽहं मोहं निहन्तुं तदपि कथमपि प्रेमरक्तो न शक्तः ॥ २५ ॥ व्याख्या - कान्ता भार्या कान्ताऽपि अत्यन्तमनोहराऽपि तापम् अन्तर्दाहं विधत्ते करोति प्रायः सर्वस्य । कीदृशम् ? विरहदहनजं विप्रयोगज्वलनोद्भवम् । हन्तेति खेदे । चित्ते मनसि तस्माद्यद्यपि तत्सङ्गोऽमृतायते कामिनां तथापि विरहविषमिश्रितत्वात्तापहेतुरेवेति तत्त्यागेनैवात्मशान्तिरिति भावः । एवं
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org