SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् ६८ अभ्युत्थानासनदानादेशाद्यविधायकः वर्तत इति शेषः सर्वत्र । तथा क्रोधः कोपः स एव युद्धपरिणामपरमनिदानत्वाद्योधः सुभटः। सोऽपि कीदृशः? प्रबोधध्वंसी प्रकृष्टज्ञानविनाशकः। प्रवृद्ध हि तस्मिन् जनकादयोऽपि वैरिण इवाभान्ति। तथा वैरं विरोधं घातकादिभिः सहानुबध्नाति तत्पुत्रपौत्रादिभिरपि सहानुषजति। तथा माया निकृतिरपि प्रणयविमथनी अविश्वासहेतुत्वात् प्रीतिनाशिनी। तथा विशिष्टा अपाया ऐहिकपारत्रिकमहादुःखनिदानानि व्यसनानि। तत्रैहिकानि तावन्मित्रबान्धवविघटनादीनि, पारत्रिकाणि तु दुर्गतितिर्यग्गतिप्राप्तिप्रमुखाणि। तथा चोच्यते मायापरस्स मणुयस्स झत्ति विहडंति बंधुमित्ता वि। अस्संख तिक्खदुक्खे मयस्स उ ठिई तिरिक्खभवे । ततश्च सह व्यपायैर्वर्त्तत इति सव्यपाया। चः समुच्चये। तथा लोभः अन्यायेन परद्रव्यापहरणेच्छारूपः। संक्षोभः आकस्मिकस्त्रासः। भवति हि लोभवतो द्रव्योपार्जनायाऽतिरौद्रारण्यप्रवेशसमुद्रतरणादिप्रवृत्तस्याकस्मिकं भयम्। तथा व्यसनशतानि राजादिप्रभूतोपद्रवास्तेषां महाधाम विस्तीर्णावासः। भवन्ति हि लोभवतः समुपार्जितप्रभूतद्रव्यवतो व्यसनानि। तथा कामोऽपि कामिन्याद्यभिलाषरूपोऽपिशब्दः समुच्चयार्थः। ततश्च वामो विपरीतस्वभावस्तावत् विद्यमानादर्शन-असद्दर्शनस्वभावत्वात्। तदुक्तम् दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितम्, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy