SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ६७ धर्मशिक्षा-प्रकरणं सवृत्तिकम् कार्यकरणाक्षमाणि आयस्तानि क्षिप्तानि शस्त्राणि कुन्ततोमरादीनि येषु तानि तथा। 'सहस्रसुभटनिपाते कबन्धा नृत्यन्तीति' प्रसिद्धिः। ततश्चैतावता महासंग्रामहेतुत्वमेषां दर्शितं भवति। इत्येवं करणैः इन्द्रियैः हेतुभूतैः कार्यमाणाः विधाप्यमानाः पुमांसो भूयांसः अतिप्रचुराः क्षयं ध्वंसं प्रापुः लेभिरे। अत्र संसारे अभीक्ष्णं निरन्तरं न त्वैकदैव। श्रूयन्ते हि रामरावणादीनां सुभटकोटिक्षयकारीण्यनन्यतुल्यानि युद्धानि। तथा चोच्यते- 'गगनं गगनाकारं सागरः सागरोपमः। रामरावणयोर्युद्ध रामरावणयोरिव॥' परिशिष्टा भद्रायाम् [रुद्रट काव्यालं० २। २९] इति वचनादत्र भद्रा नाम वृत्तिः। तथाऽत्र प्रथमार्द्ध गौडीया रीतिरिति। यदा चैषामेवमत्यन्तासमञ्जसकारित्वम्। ततो युक्तैवैषां दान्तिरिति वृत्तार्थः ॥ २३॥ __ एवं बाह्येन्द्रियदमोपदेशमभिधाय चान्तरङ्गरिपुक्रोधादिनियमनेनात्मशान्तिद्वारमेकादशं विवृण्वन् कविकृतेर्वैचित्र्यादेकैकस्य क्रोधादेरुभयविशेषणोपेतत्वेनात्मशान्त्युपदेशमाहमानः सन्मानविघ्नः स्फुटमविनयकृत्क्रोधयोधः प्रबोधध्वंसी वैरानुबन्धी प्रणयविमथनी सव्यपाया च माया। लोभः संक्षोभहेतुर्व्यसनशतमहाधाम कामोऽपि वामो व्यामोहायेति जित्वान्तरमरिविसरं स्वस्य शान्तिं कुरुध्वम्॥२४॥ व्याख्या-आन्तरमरिविसरं जित्वा स्वस्य शान्तिं कुरुध्वमिति योगः। तमेवाह-मानोऽहंकारस्तावत् सन्मानस्य जनकादिजनितबहुमानस्य विघ्नः अन्तरायः, माने हि सति जनकादावप्यप्रणामप्रवणत्वात्, कथं तत्कृतः सन्मानः। एतदपि कुतः? यतः स्फुटं व्यक्तमविनयकृत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy