________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
महायनं कुरुत भो भव्याः ! क्व विषय इत्याह- तेषां करणानां दमनं दमो वशीकारस्तत्र । समासान्तर्गतस्यापि करणशब्दस्यात्र तच्छब्देन परामर्शः । एवमनेकत्र कविप्रयोगदर्शनादिति । इह च ' तद्रूपकमभेदो उपमानोपमेययोरिति' [काव्यप्रकाश सूत्र १४०] लक्षणदर्शनाद्रूपकाख्योऽलङ्कारः । एवमन्यत्रापि द्रष्टव्य इति वृत्तार्थः ॥ २२ ॥
अथेन्द्रियाणामेव महाप्रलयरूपसंग्रामादिनिदानत्वमाह
Jain Education International
----
प्रेङ्खत्खड्गाग्रभिन्नोत्कटकरटिघटाकुम्भकीलालकुल्यावेगव्यस्तभ्रकुट्युद्भटभटपटलीलूनवक्त्राम्बुजानि । क्रुद्धोद्धावत्कबन्धव्यतिकरविफलायस्तशस्त्राण्यभीक्ष्णं
भूयांसः प्रापुरत्र क्षयमिति करणैः कार्यमाणा रणानि ॥ २३ ॥ व्याख्या- भूयांसः करणै रणानि कार्यमाणाः क्षयं प्रापुरिति सम्बन्धः । कीदृशानि रणानि ? प्रेङ्खन्तः सुभटकराग्रेष्वत्यन्तदीप्यमानाः खड्गाः करवालास्तेषामग्राणि धारास्तैर्भिन्ना विदारिता ये उद्भटकरटिघटायाः बलिष्ठमहेभसन्ततेः कुम्भाः शिरःकूटास्तेषां कीलालं रुधिरं तस्यातिबाहुल्यात् कुल्या नदीविशेषस्तथा चोच्यते- 'कुल्याल्पा कृत्रिमा सरित् [अमरकोष १/१०/३४] इति, तस्या वेगो रंहसा वहनम्, तेन कोपवशाद् भ्रुवोरुच्चैर्नयनं भ्रकुटिस्तयोद्धा अतिरौद्री सा चासौ भटपटली च सुभटसंहतिश्च तस्या लूनानि वैरिभिश्छिन्नानि तानि च तानि वक्त्राण्येवातिविकस्वरसुरभित्वादम्बुजानि कमलानि । ततश्च व्यस्तानि क्षिप्तानि भ्रकुट्युद्भटपटलीलूनवक्त्राम्बुजानि येषु तानि तथा । पुनः कीदृशानि ? क्रुद्धा रोषपरायणा उद्धावन्तो वेगेन द्रवन्तस्ते च ते कबन्धाश्च छिन्नशिरांसि शरीराणि तेषां व्यतिकरः परस्परसम्बन्धस्तेन विफलानि शून्यप्रक्षेपेण
For Private & Personal Use Only
६६
www.jainelibrary.org