SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ६५ धर्मशिक्षा-प्रकरणं सवृत्तिकम् करणवशगतेति विशेष्यं कर्तृपदम्, शेषाणि तु तन्निन्दकविशेषणानि। तथा कुगतिः दुर्गतिः सैव नानाद्भुतरूपाश्रयत्वात् प्रभूतजनापचितिहेतुत्वाच्च सुरगृहं देवमन्दिरम् । तस्य प्रज्ञापकत्वात् प्रोल्लसन्नत्युन्नतिमत्त्वात् केतुदण्डः ध्वजयष्टिः। यथा ध्वजदण्डेन दूरतोऽपि सुरमन्दिरम् ज्ञायते। तत्र तस्यावश्यंभावित्वादेवमनया दुर्गतिरवश्यंभाविनी ज्ञाप्यते। तथा प्रद्वेषस्येन्द्रियविषयोपघातिनि जनकोपाध्यायादावप्युत्कटक्रोधस्य श्लेषो निबिडसम्बन्धस्तस्य हेतुः कारणम्। तथा सुगतिः स्वर्गादिका सैव नानानन्दमणिगणोपचितत्वाजलधिः समुद्रस्तस्य निस्तारः पारगमनम्। तत्र विस्तीर्णो महीयान् सेतुः काष्टादिमयः सञ्चारपथः। यथा सुनिबिडसेतुना सिन्धुः स्पृश्यतेऽपि न, तथाऽनया न मनागपि सुगतिरिति । तथा शस्त्रं सर्वथोच्छेदकत्वात्तीक्ष्णक्षुरप्रादिप्रहरणम् । कस्या इत्याह-सद्भिः सज्जनैः सह सङ्गः सम्पर्क : स एवानेकगुणहरिणाकर्षणहेतुत्वाद्रज्जुः वरत्रा तस्याः। इन्द्रियलम्पटस्य हि सत्सङ्गो न सुखायत एवेति भावः। तथा व्यसनानि प्रभूतराजाद्युपद्रवास्तेषां कुलगृहं निवासमन्दिरम् । अत्यन्तेन्द्रियासक्तो हि गम्यागम्याविभागेन परदारादावपि प्रवृत्तो राजादिग्राह्योऽपि भवतीति भावः। एकैकेन्द्रियावशत्वे हि मृगगजादीनां मारणान्तिकाऽऽपच्छतश्रवणात्, किं पुनः समस्तेन्द्रियावशानाम् । तथा रागः कमनीयकामिन्यादिविषयाभिलाषः स एवातिस्निग्धमधुरौदनाज्यमध्वादिसाध्यत्वाद्यागोऽध्वरस्तस्याग्रयः प्रधानो यज्वा याजकः। यथा हि यज्वना यागः साध्यते तथाऽनया राग इति। हेति खेदे। अरिष्टं नगरराज्यादिध्वंससूचको भूकम्पनिर्घातादिरुत्पातविशेषः। कस्या:? शिष्टतायाः सजनतायाः, यथाऽरिष्टं नगरादेवंसं सूचयति तथेयं शिष्टताया इति भावः। करणवशगतेति योजितमेव। यत एवमनेकानर्थहेतुः करणवशगताऽतोऽस्मात् कारणात् । किमित्याह-यतध्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy