________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
६४
स्वकार्यसाधकत्वादयो धर्मास्त एव विशिष्टज्ञानोद्योतबीजत्वान्मणयो रत्नानि तेषां सर्वेषामुत्पत्तिभूमित्वाद् रोहणाद्रिः पद्मराग-वैडूर्य-पुष्परागादिरत्नोत्पत्तिहेतुः पर्वतविशेषः। केत्याह-क्षमैव क्षान्तिरेव, नान्यः कोऽपि गुण एवं विशिष्टगुणान्तरोत्पादक इति भावः। तदिति इतिशब्दो हेत्वर्थः। ततश्चैवं योजना कार्या-यतः क्षमा पूर्वोदितगुणवती तत्तस्माद्धत्त रोषप्रमोषम्। कीदृशम्? कुशलानि पुण्यकर्माणि तान्येव सुकृतात्मनां प्रवर्द्धनसाधावल्लयः लतास्तासां प्रोल्लसन्त्यः उजृम्भमाणास्ताश्च ता लास्यलीलाश्च नर्तनक्रीडाः, नर्त्तनं चेह मलयमारुतान्दोलितानां विकसितपुष्पत्वम्। तत्र कुसुमसमयो वसन्तस्तम्। उपदेशमाह-धत्त धारयतोच्चैरतिशयेन। कमित्याह-रोषस्य कोपस्य प्रमोषः नि:शेषतया निग्रहस्तम्। क्षमाया एव नामान्तरमिदमिति। तद्युक्तश्च लकारः [रुद्रट काव्यालं० २। २०] इति वचनादत्र मधुरा वृत्तिरिति । मालिनीवृत्तार्थः॥ २१ ॥
अथ दान्तिरिति दशमं द्वारं स्पष्टीकुर्वन्निन्द्रियवशवर्त्तिताया दोषानुपदर्शयंस्तद्दमोपदेशमाह
विद्याकन्दासिदण्डः कुगतिसुरगृहप्रोल्लसत्केतुदण्डः प्रद्वेषश्लेषहेतुः सुगतिजलधिनिस्तारविस्तीर्णसेतुः। शस्त्रं सत्सङ्गरज्ज्वा व्यसनकुलगृहं रागयागाग्र्ययज्वा,
हारिष्टं शिष्टतायाः करणवशगता तद्दमेऽतो यतध्वम्॥२२॥ व्याख्या-विद्या सम्यग्ज्ञानं तद्धेतुभूतं शास्त्रं च सैव समस्तसदनुष्ठानतरुमूलत्वात् कन्दो बीजस्यादिकार्यम्। तत्रासिदण्डः समूलोच्छेदकत्वात् खड्गयष्टिः। कासावित्याह-करणानि इन्द्रियाणि श्रोत्रादीनि तेषां वश आयत्तता तं गच्छन्ति यान्तीति करणवशगाः पुरुषास्तेषां भावः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org