________________
६३
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
शास्त्राणि सिद्धान्ता वेदप्रज्ञापारमिताङ्गोपाङ्गादीनि तेषूदिता समीचीनत्वेन कर्त्तव्यतया प्रतिपादिता तस्याम्। ईदृश्यपि कदाचिदात्माऽपवर्गादिप्रतिपादकप्रसिद्धार्थवाक्यवन्नाभिमतफलसाधिका स्यादत आह-सर्वे समस्ता ऐहिकपारत्रिकादयोऽभीष्टा अभिमता अर्थाः प्रयोजनानि राज्यस्वर्गापवर्गादीनि तेषां लाभः प्राप्तिस्तस्य प्रभवः उत्पादस्तं करोतीति कृत् तस्यां तत्प्रभवकृति, सदा सर्वकालं वर्तितव्यं वर्तनीयम् । क्षमायां निर्विवेकजनविहिताक्रोशताडनादिसहनरूपायाम्। अयमभिप्रायो या सर्वशास्त्रोक्ता सर्वार्थसाधिनी चेति ज्ञाता क्षमा सा शत्रुविषयेऽपि विवेकभाजा कर्त्तव्यैवेति चिन्तयता। तद्यथा-शप्तोऽस्म्यनेन न हतोऽस्मि, हतोऽस्मि यद्वा नो मारितोऽस्मि, मरणेऽपि न धर्मनाशः। क्रोधस्तु धर्ममुपहन्ति चिनोत्यघं च सञ्चिन्त्य चारुमतिनेति तितिक्षणीयमिति वृत्तार्थः॥ २० ॥ अथ क्षमाया एवं गुणोपदर्शनपूर्वकं नामान्तरेण तत्प्रवर्तनोपदेशमाह
दशविधयतिधर्मस्यादिमं क्षान्तिरङ्गं विमलगुणमणीनां रोहणाद्रिः क्षमैव। तदिति कुशलवल्लिप्रोल्लसल्लास्यलीला
कुसुमसमयमुच्चैर्धत्त रोषप्रमोषम्॥ २१॥ व्याख्या-दशविधस्य दशप्रकारस्य यतिधर्मस्य सुसाधुकृत्यविशेषस्यादिमं प्रथमं क्षान्तिः क्षमा। तथा चोच्यते- 'क्षान्तिमाईवार्जवमुक्तितप:संयमसत्यशौचाकिञ्चन्यब्रह्मचर्याणि यतिधर्मः' [तत्त्वार्थ० ९।६] । इत्यत्रादिनिर्देशादेव तावद्रसेषु शृङ्गारस्येवास्याः प्राधान्यमवसीयते । न केवलं यतिधर्मोद्यमतायाः प्राधान्यमपि तु विशिष्टकार्यनिदानत्वादपीत्याह-विमला निर्मला गुणा सर्वजनविश्वसनीयत्वाचार्याधाराधकत्वसमस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org