________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
- ६२
-
इत्यपेरर्थः। सहति क्षमते। सहतेः परस्मैपदं पूर्वकविप्रामाण्यात् । किलेत्याप्तवादे। किमित्याह-सर्वं दुर्वचन-पादप्रहारादिकमवज्ञाविशेष समस्तम्। ततः किमित्याह-अश्रुते लभते, चेति चः समुच्चये, न केवलं सहते लभते चेत्यर्थः। किमित्याह-इष्टम् अभिमतमालिङ्गनादिकम्, एवं पूर्वोक्तं सहमानः, न केवलं प्रीत्या कश्चित् कर्मकरादिर्भीत्यापि भयेनापि राज्ञः सम्बन्धि सर्वमवज्ञादिकं सहतेऽभीष्टं च द्रव्यादिकं लभते, शठोऽपि अभक्तिमानपि। एवं तावदशुद्धचित्तस्यापि सहने गुणः प्रतिपादितः। अथ प्रकारान्तरेण तद्गुणमाह-एतदिदं जनेऽपि सामान्यलोकेऽपि स्पष्टं व्यक्तं प्रवर्त्तते । यदुत कदाचित् कश्चित् कुपितस्वामिदुष्ट वचनेऽपि सति तदवमत्यविशेषेणाराधकः सन् कार्यं प्रयोजनं विशिष्टाधिकारप्राप्तिलक्षणं कुर्यात् साधयेत् । क्षमी तद्वचनसहनपरायणः। तथा च यत् क्षमी साधयति तन्न कदाचित् कुपितः। तथा चोक्तम्
क्षमी यत् कुरुते कार्यं न तत्कोपवशं गतः। कार्यस्य साधनी प्रज्ञा सा हि क्रुद्धस्य नश्यति ।
[ कोपात्तदसहने हि प्रत्युत प्रभोः प्रभूततरावज्ञास्पदमेव स स्यात्। एवं सहनगुणमभिधायाथोपदेशमाह-तस्मात् कारणात् अपिः भिन्नक्रमस्तेन उग्ररागद्विष्यपि रिपौ क्षमायां वर्त्तितव्यमिति योगः। तत्र रागस्तस्यैव रिपोः स्वकीयविनाशितजनकादिविषयो द्वेषणं च द्विट् द्वेषो घातकविषयस्ततश्चोग्रे अत्युत्कटे रागद्विषौ यस्य, तत्रापि, एवंविधे हि रिपौ प्रायः क्षमा दुष्करा भवतीति सूचनार्थोऽपिशब्दः। तथा मिषति घातकेन सह स्पर्द्धमाने न तु प्रणते। कीदृश्यां क्षमायाम्? सर्वेषां दर्शनिनां यानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org